________________
१२४
रोमि । न केवलं तान् आराधनोपदेशकान् वंदे : आराहियं च जेहिं यैर्मुनिवरेंद्रैराराधितं द्रव्यभावाराधनासारं तान् सर्वानपि त्रिधा नमस्करो - मीत्यर्थः ॥ ११३ ॥
आराधनासारः
स्वाहंकारपरिहारं विदधानः आचार्यः प्राह;
णय मे अस्थि कवित्तं ण मुणाभो छेदलक्खणं किंपि । णियभावणाणिमित्तं रइयं आराहणासारं ॥ ११४ ॥
न च मे अस्ति कवित्वं न जाने छंदोलक्षणं किंचित् । निजभावनानिमित्तं रचितमाराधनासारम् ॥ ११४ ॥
णय मे अस्थि कवित्तं मे मम कवित्वं व्याकरणविशुद्धं शब्दार्थालंकारसमन्वितं नास्ति । तथा न मुणामो छंदलक्खणं किंपि छंदः पिंगलायाचार्यप्रणीतं छंदःशास्त्रं छंदचूडामण्यादिकं न जाने इत्यर्थः । तथा लक्षणं व्याकरणं जैनेंद्रादिकं अथवा कवित्वस्य गुणलक्षणं न जानामि किंचित् स्तोकमपि । यदि न किंचिज्जानासि तर्हि किमर्थमारचितवानसि इत्युक्ते प्राह । णियभावणाणिमित्तं निजभावनानिमित्तं केवलमात्मभावनानिमित्तं आराधनासारो मया व्यरचि कृतः निजभावनां निमित्तीकृत्य मयायमाराधनासाराख्यो ग्रंथो व्यरचि न पुनर्यशोनिमित्तं । यदुक्तम्
न कवित्वाभिमानेन न कीर्तिप्रसरेच्छया ।
कृतिः किंतु मदीयेयं स्वबोधायैव केवलम् ॥ ११४ ॥
यद्यत्र प्रवचनविरुद्धं तदा द्रव्यभावश्रुतकेवलिनो दूषणमपाकृत्य विशुद्धममुं ग्रंथ कुर्वन्त्विति ब्रवीतिः —
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org