________________
टीकासहितः ।
१२३
इत्येवं लक्षणं सर्वपरिग्रहं चइऊणं त्यक्त्वा विमुच्य ! न केवलं संगं त्यक्त्वा । तथा लिंगं धरिऊण जिणवरिंदाणं जिनेंद्राणां लिंगं नग्नतादिलक्षण धृत्वा सम्यक् प्रकारेण स्वात्मनि जिनदीक्षामारोप्येत्यर्थः । यद्यपि लिंग जात्यादिविकलो निश्चयनयापेक्षया मोक्षहेतुर्न भवति । यदुक्तम्
लिंगं देहाश्रितं दृष्टं देह एवात्मनो भवः।
न मुच्यते भवात्तस्माद्ये ते लिंगकृताग्रहाः ॥ तथापि व्यवहारेण जिनलिंग मोक्षाय भवति । तथा अप्पाणं झाऊणं आत्मानं च ध्यात्वा । यदुक्तम्
संयम्य करणग्राममेकाग्रत्वेन चेतसा ।
आत्मानमात्मवान् ध्यायेदात्मनैवात्मनि स्थितम् ॥ एवं कुर्वाणा आराधनाराधकाः सिध्यतीत्यर्थः ॥ ११२ ॥ अथ ये व्यवहारनिश्चयाराधनाया उपदेशका आराधकाश्च तान्नमस्करोमीत्याह;आराहणाइ सारं उवइटु जेहिं मुणिवरिंदेहिं । आराहियं च जेहिं ते सव्वेहं पवंदामि ॥ ११३ ॥
आराधनायां सारमुपदिष्टं यैर्मुनिवरेन्द्रैः । आराधितं च यैस्तान् सर्वानहं प्रवंदे ॥ ११३ ॥ जेहिं उवइलु यैातसम्यगाराधनारहस्यैः उपदिष्टं आदिष्टं कथितं । कीदृशैयः । मुणिवरिंदेहिं प्रत्यक्षज्ञानिनो मुनयस्तेषां वरा गणधरास्तेपामिद्राः स्वामिनस्तीर्थकरास्ते मुनिवरेंद्रास्तैः मुनिवरेन्द्रैः तीर्थकृद्भिः। किं.
उपदिष्टं यैः । आराधनायां सारं सर्वस्या आराधनायाः सारः टंकोत्कीर्णचि· स्वरूपपरमात्माराधनालक्षणः स उपदिष्टो यैर्मुनिवरेंद्रैस्तान् प्रवदे नमस्क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org