________________
१२२
सयलसत्थाई सकलानि च तानि शास्त्राणि सकलशास्त्राणि व्याकरणछंदोलंकारतर्क सिद्धांतादीनि परं जाम ण झायइ अप्पा यावत्कालं चैतन्यात्मानं न ध्यायति भेदज्ञानेन कायादिभ्यः पृथगवबुध्य स्वसंवेदनेन यावन्न संवेदयति तावत्तस्य प्राणिनः क्षपकस्य मोक्षो नास्ति । को नाम एवमाचष्टे । जिणो भणइ निखिलार्थसार्थसाक्षात्कारी केवली जिनः भणति कथयति । उक्तंच --
आराधनासारः
पदमिदं ननु कर्म दुरासदं सहजबोधकला सुलभं किल । तत इदं निजबोधकलाबलात्कलयितुं यततां सततं जगत् ॥ यो न वेत्ति परं देहे देवमात्मानमव्ययम् |
लभते न स निर्वाणं तप्त्वापि परमं तपः ॥ १११ ॥
एवंविधं विदधाना भव्यात्मानोऽवश्यं मुक्तिभाजो भवतीति निगदति;
चइऊण सव्वसंग लिंगं धरिऊण जिणवरिंदाणं । अप्पाणं झाऊणं भविया सिज्झति णियमेण ॥ ११२ ॥
त्यक्त्वा सर्वसंगं लिंगं धृत्वा जिनवरेंद्राणाम् ।
आत्मानं ध्यात्वा भव्याः सिध्यंति नियमेन ॥ ११२ ॥
सिज्झति सिध्यंति सिद्धिं साधयंति । के । भविया भव्यात्मानः । कथं सिध्यंति । णियमेण निश्वयेन । किंकृत्वा । चइऊण सव्वसंग संग: परिग्रहो बाह्याभ्यंतररूपः । तत्र बाह्यो दशविधः । यदुक्तम्-
क्षेत्रं वास्तु धनं धान्यं द्विपदं च चतुष्पदम् । आसनं शयनं कुष्यं भांडं चेति वहिर्दश ॥
अभ्यंतरश्च परिग्रहश्चतुर्दशभेदभिन्नः । यदुक्तम् -
-
मिथ्यात्ववेदरागाहासप्रमुखास्तथा च षड् दोषाः । चत्वारश्च कषायाश्चतुर्दशाभ्यंतरा ग्रंथाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org