________________
टीकासहितः।
१२१
सिझंति सिध्यति । के । भविया भव्याः। किं कृत्वा । भुत्तूण भुक्त्वा अनुभूय । कानि । सुखानि । कथंभूतानि सुखानि । अणोवमाइं अनुपमानि उपमारहितानि । यदुक्तम्
हृषीकजननातंक दीर्घकालोपलालितम् ।
नाके नाकौकसां सौख्यं नाके नाकौकसामिव ॥ क्क । उत्तमदेवमणुस्से उत्तमदेवमानुषे उत्तमदेवत्वं इंद्रादिपदप्राप्तिलक्षणं उत्तममानुषत्वं चक्रवर्तिपदवी उत्तमदेवश्च उत्तममानुषश्च उत्तमदेवमानुषस्तस्मिन् उत्तमदेवमानुषे चक्रित्वत्रिदशेंद्रतादिपदवीमनुभूय सदनु सिद्धिसुखभाजो भवंतीत्यर्थः । के सिद्धयति । आराहणउवजुत्ता आराधनोपयुक्ताः तथा झाणत्था ध्यानस्था ध्याने तिष्ठंतीति ध्यानस्थाः धर्मशुक्लादिध्यानभाजः । तथाहि । बाह्याभ्यंतरपरिग्रहपरित्यागमाधाय गृहीतसंन्यासः निर्मलतरसमयसारसरणिपरिणतांतःकरणः निश्चयव्यवहाराराधनोपयोगयोगी वर्धमानपुण्यप्रकृत्युदयजनितस्वरैश्वर्यादिकमनुभूय भव्यात्मा सिध्यतीत्यसंदेहमिति ॥ ११० ॥
अतितपश्चरणादिकं कुर्वाणोपि स्वात्मध्यानबहिर्भूतो मोक्षभाग् न भवतीत्युपदिशति;अइ कुणउ तवं पालेउ संजमं पढउ सयलसत्थाई। जामण झावइ अप्पा तामण मोक्खोजिणो भणइ।१११॥
अति करोतु तपः पालयतु संयम पठतु सकलशास्त्राणि । यावन्न ध्यायत्यात्मानं तावन्न मोक्षो जिनो भणति ॥ १११ ॥
अइ कुणउ करोतु अनुचरतु । कोसौ । प्राणी । किं तत् । तवं तपः पक्षे उपवासादिकं । कथं । अतीव उग्रोग्रं तथा पालेउ प्रतिपालयतु । कं । संयमं इंद्रियादिसंयम । तथा पढउ पठतु अधीतां । कानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org