________________
टीकासहितः।
१२५
अमुणियतच्चेण इमं मणियं जं किंपि देवसेणेण । सोहंतु तं मुर्णिदा अस्थि हु जइ पवयणविरुद्धम् ॥११५॥
अज्ञाततत्त्वेनेदं भणितं यत्किचिद्देवसेनेन । शोधयंतु तं मुनींद्रा अस्ति हि यदि प्रवचनविरुद्धम् ॥ ११५॥ शोधयंतु तं मुनींद्राः भावद्रव्यश्रुतकेवलिनः अंतःस्वसंवेदनज्ञानसंयुक्ताः बहिर्वादशांगश्रुतरहस्यकोविदाः । किं तत् । तं । तत् किं । भणियं जं किपि यत्किंचित् भणितं निगदितं इमं इदं प्रत्यक्षीभूतमाराधनासाराख्यं शास्त्रं । केन भणितं । देवसेनेन देवसेनाख्येनाचार्येण । कथंभूतेन । अमुणियतच्चेण अज्ञातं तत्त्वं येन स अज्ञाततत्त्वस्तेन अज्ञाततत्त्वेन । गर्वपरिहारार्थमिदं विशेषणं न पुनरज्ञाततत्त्व आचार्यः, ततः प्राचीनसूरयो नितरां गुणिनोपि विगताहंकाराः श्रूयते । यदुक्तम्
सत्यं वाचि मतौ श्रुतं हृदि दया शौर्य भुजे विक्रमे लक्ष्मीर्दानमनूनमर्थिनिचये मार्गे गतौ निर्वृतेः । येषां प्रागजनीह तेपि निरहंकाराः श्रुतेगोचरा
श्चित्रं संप्रति लेशतोपि न गुणस्तेषां तथाप्युद्धताः ॥ परं तदा शोधयंतु अस्थि हु जइ पवयणविरुद्धं हु स्फुटं यदि चेत् प्रवचनविरुद्धं जिनागमविरुद्धं किंचिन्मया प्रत्यपादि तदा शोधयंतु । ये भावश्रुतविरहिताः केवलं द्रव्यश्रुतावलंबिनस्तेषां पुनरिहाराधनासारशोधने नाधिकारः । ये परमब्रह्माराधनातत्परास्त एवात्राधिकारिण इत्यर्थः ॥११५॥
इति श्रीदेवसेनाचार्यविरचित आराधनासारः समाप्तः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org