________________
१२६
आराधनासारः
nanAmAhannnnnnnnnn
टीकाकारस्य प्रशस्तिः।
अश्वसेनमुनीशोऽभूत् पारदृश्वा श्रुतांबुधेः। पूर्णचंद्रायितं येन स्याद्वादविपुलांबरे ॥ १ ॥ श्रीमाथुरान्वयममूदधिपूर्णचंद्रो
निर्धूतमोहतिमिरप्रसरो मुनींद्रः । तत्पट्टमंडनमभूत् सदनंतकीर्ति
या॑नाग्निदग्धकुसुमधुरनंतकीर्तिः ॥ २॥ काष्ठासंघे भुवनविदिते क्षेमकीर्तिस्तपस्वी
लीलाध्यानप्रसृमरमहामोहदावानलांमः । आसीहासीकृतरतिपतिर्भूपतिश्रेणिवेणी
प्रत्यग्रस्रवत्सहचरपदवंदपद्मस्ततोपि ॥ ३ ॥ तत्पद्रोदयभूधरेऽतिमहति प्राप्तोदये दुर्जयं
रागद्वेषमहांधकारपटलं संवित्करैर्दारयन् । श्रीमान् राजति हेमकीर्तितरणिः स्फीतां विकाशश्रियं भव्यांभोजचये दिगंबरपथालंकारभूतो दधत् ॥ ४ ॥ विदितसमयसारजोतिषः क्षेमकीर्ति
हिमकरसमकीर्तिः पुण्यमूर्तिर्विनेयः । जिनपतिशुचिवाणीस्फारपीयूषवापी
स्नपनशमिततापो रत्नकीर्तिश्चकास्ति ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org