SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आराधनासारः " भावयन् स परं ब्रह्म छित्वा दुःकर्मसंचयम् । केवलज्ञानमासाद्य बभूवे मोक्षमक्षयम् ॥ इति शिवभूतिकथा। अथ तिर्यकृत उपसर्ग उभाभ्यां सोढस्तमारव्याति । तिरियंचकओ तिर्यकृतः तिर्यग्भिः व्याघ्रसिंहशूकरसर्पसैरिभसौरभेयशगालादिभिः कृत उपसर्गः तिर्यकृतः सोढः । काभ्यां । सुकुमालकोसलेहि सुकुमालकोशलाभ्यां सुकुमालश्च कोशलश्च सुकुमालकोशलौ ताभ्यां सुकुमालकोशलाभ्यां । कथंभूत उपसर्गः । महाभीमः अतिशयेन भयानकः । सुकुमालकोशलाभ्यां तिर्यकृत उपसर्गः सोढः । कथं सोढस्तदनयोः कथा । अथ जंबूद्वीपस्य भारते कौशांबीनगर्या विनमन्नरपालमौलिमालाशोणमणिकिरणकाश्मीरपूरातुरंगजितचरणकमलोऽतिबलो नाम राजाभूत् । तत्पुरोधाः राजसदसि प्राप्तप्रतिष्ठश्चतुर्वेदाभिज्ञः व्याकरणप्रमाणकवितारत्नरत्नाकरः विष्णुभक्तितत्परः प्रतिदिनमाचरितषट्कर्मा सोमशर्मा नाम तत्पत्नी काश्यपी तत्पुत्रावुभौ अग्निभूतिमरुभूतिनामानौ । अथैकदा द्विजम्मा पुत्रद्वयं प्रत्याह, रे सुतौ श्रुताभ्यासं भवंतौ तनुतं । यदुक्तम्-- भवति ह्यपि समूलोन्मूलने मत्तदंती जडमतिभिरनाशे पद्मिनीप्राणनाथः । नयनमपरमेतद्विश्वविश्वप्रकाशे करणहरिणबंधे वागुराज्ञानमेतत् ॥ अधीतशास्त्रः प्रज्ञावानपि भवति सर्वेषां गोचरः अलोचनगोचरे यर्थे शास्त्रं पुरुषाणां तृतीयं लोचनं अनधीतशास्त्रः चक्षुष्मानपि पुमानंध एव इति प्रतिबोधितावपि तौ नाधीयाते प्रत्युत पितरं क्लेशं नयतः । यदुक्तं प्रायो मूर्खस्य कोपाय सन्मार्गस्योपदेशनम् । निळूननासिकस्यैव विशुद्धादर्शदर्शनम् ॥ तदुष्टचेष्टौ पश्यन् विषयभोगयोगादुत्पन्नरोगो विप्रोऽकांडेपि मृतः । अथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy