________________
टीकासहितः ।
५९
कियत्सु वासरेष्वतीतेषु राज्ञा तौ पुरोहितसुतावाहूय स्मृत्यर्थ पृष्ठौ । देव न जानीवहे इत्युत्तरं चक्रतुः । भूपेन अनध्ययनो ब्राह्मणोऽयाजनो देवानामिति विमृश्य तौ पुरोहितपदान्निराकृतौ । ततः पुरोहितभार्या अत्यर्थः दुःखिता सती उपभूपं गत्वा जजल्प । भो महीमहेंद्र किमिति मत्तनयौ हतवृत्ती विहितौ । राजा जगाद । तवात्मजौ निरक्षरशिरोमणी अततः सभं कामप्यभीष्यां न लभेते । यदुक्तं
विद्वज्जनानां खलु मंडलीषु मूर्खो मनुष्यो लमते न शोभाम् । श्रेणीषु किं नाम सितच्छदानां काको वराकः श्रियमातनोति ॥
अथ तनयावाहूय ब्राह्मणी प्रोवाच । रे भयौवनवनच्छेदे कुठारौ नृपसदसि प्राप्तमानखंडनयोर्युवयोः मरणमेव शरणं । यदुक्तं
मा जीवन यः परावज्ञादुःखदग्धोपि जीवति । तस्याजननिरेवास्तु जननी क्लेशकारिणः ॥
अथ सुतावूचतुः । मातर्जहीहि कोपं देहि शिक्षामतः परं कथमावयोः शास्त्रपाठलाभ: । साह । राजग्रहे नगरे भावत्कः पितृव्यो विदितव्याकरणोSaीततर्कशास्त्र न्यायशास्त्रपाथोधिपारीणः परवादिशिरः करोटी कुट्टकः सूर्यमित्र: सांप्रतं निःशेषमनीषिशिरोमणिर्वरीवर्ति तदितस्त्वरितं गत्वा तमाराध्य विद्याभ्यासं युवामाचरतां । तौ च तन्मातृवचनं निशम्य राजगृहनगरं त्वरितमगमतां । तत्र सूर्यमित्रसदनं सद्यः प्रविश्य उपाध्यायं च नमस्कृत्य तत्पुरो भूमावुपविष्टौ । सूर्यमित्रोपि तद्युगलमपूर्वमालोक्य विस्मयवांतचेताः अपृच्छत् । कौ युवां कस्मादागतौ कस्यात्मजौ किमिह करणीयं चेति । तावूचतुः । कौशाम्ब्या आगतौ सोमशर्मात्मजौ अग्निभूतिमरुद्भूतिनामानौं त्वमाराध्यावां शास्त्राभ्यासं चिकीर्षावः । सूर्यमित्रोपि मदीयज्येष्टभ्रातृपुत्रा-. विमाविति संबंधं जानन्नपि जुगोप | यदि विद्यां जिघृक्षू युवां तदा व्यसनानि त्यजतां यतो व्यसनिनो विद्यासिद्धिर्न भवति ॥ यदुक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org