________________
1
.
आराधनासार
स्तब्धस्य नश्यति यशो विषमस्य मैत्री
नष्टक्रियस्य कुलमर्थपरस्य धर्मः । विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रणष्टसचिवस्य नराधिपस्य । भिक्षाया निजोदरपूरणं गुरुशुश्रूषणं भूमिशयनं च वितन्वतोर्भवतोः श्रुतावधारणशक्तिः । अथ तच्छिष्यद्वयं स उपाध्यायः सभाष्यं व्याकरणमपीपठत् वेदांश्च सांगानध्यजीग्यपत् प्रमाणशास्त्राण्यबूबुधत् । अथ सुप्रसन्ने गुरौ । शिष्योऽवश्यमचिरेणैव विद्यांबुधिपारदृश्वा भवत्येव ॥ यदुक्तं
गुरोः प्रसादाद्धि सदा सुखेन प्रागल्भमायाति विनेयबुद्धिः । माधुर्यमाम्रोद्भवमंजराणीमास्वादनात्कोकिलवागिवाशु ॥ ततः सूर्यमित्रेण तौ सद्वस्त्राभरणैः संमान्य मम भ्रातृपुत्रौ युवामिति संबंधं प्रकाश्य आत्मपुरं व्रजतमित्युदीर्य च प्रेषितौ । तौ च निजनगरं प्राप्य महीपालं विद्वत्तयानुरज्य स्वपदं लेभाते सुखेन च तस्थतुः । इतश्च राजगृहे जलांजलिं सूर्याय ददतः सूर्यमित्रस्य करान्नृपदत्ता मुद्रिकान्तःकमलं पपात । अथ गृहं गतः सूर्यमित्रो मुद्रिका हस्तांगुलावपश्यन् किं नृपस्योत्तरं दास्यामीति व्याकुली बभूव । ततः सुधर्ममुनिमष्टांगनिमित्तकोविदं गत्वा च पर्यनुयोग चकार । यतिरुवाच । भो द्विज मास्म दुःखं कार्षीः यत्र त्वया जलांजलिः क्षिप्ता तत्र करान्निसृत्य पद्मकोशे निपतिता । प्रात: सत्वरं गत्वा गृह्णीथाः । सोपि नान्यथा यतिवचनमिति कृतनिश्चयो निजनिलयमीयिवान् । निशावसाने अंगुलीयकं नलिनांतर्लब्धवान् । अहो दिगंबरा एव नितरां यदभूत् यद्भविष्यति यच्च वर्तते तत्सर्वं सर्वतो विदंति तदहमेतानुपास्य त्रिकालवेदी भविष्यामि इति विमृश्य मतिश्रुतावधिज्ञानलोचनं यतीशं गत्वा कपटेन ववंदे । उवाच च
रोहणं सूक्तिरत्नानां वंदे वृंदं विपश्चिताम् । यन्मध्यं पतितो नीचकाचोप्युच्चैर्मणीयते ॥.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org