________________
आराधनासारः
पुण्यकर्मोदयाश्लिष्टनायकप्रतापा जनधनधान्यकनकसमृद्धत्वाच्छोमनविशेषणयुक्ता शोभनरसा सुरसा तस्या इनः स्वामी सुरसेनः, अथवा सर्वराजाधिराजमहाराजमंडलेश्वरमुकुटबद्धमूर्द्धभूतत्वात् शोभनो रसेनः सुरसेनः सुरसेनेन चक्रवर्तिना वंदितं । सिंहपक्षेप्ययमेवार्थः । कथं । शोभना पुष्पितफलितशावलितवनराजिमंडिता वनभूमिरिति सुरसा तस्या इनः सकलवनेचरमृगवृंदनायकत्वात्स्वामी सुरसेनः सिंहस्तेन वंदितं. सुरसेनवंदितमिति समर्थनतया मानवेंद्रतिर्यगिंद्रग्रहणसमर्थ इत्येकश्छायार्थः ॥ अनेन कायवाग्भ्यां द्रव्यनमस्कारः सूचितो, भावनमस्कारः कथं घटिष्यते । वाचा अर्हत्सिद्धप्रमुखपरमेष्ठिस्वरूपशुद्धपरमात्मद्रव्यवस्तुस्तवगुणस्तवनगंभीरोदारार्थविराजमानसकलेशब्रह्मबीजभूतनानास्तोत्ररूपः । कायेन । पंचांगनत्या प्रणमनरूपो द्रव्यनमस्कारः । इति द्रव्यनमस्कारलक्षणं। त्रिगुप्तिगुप्तमुनिनायकेनारभ्यमाणो दुःकर्मोदयसंपादितनानासंकल्पविकल्पजालेप्याधिविरहितस्य शुद्धपरमात्मनः सकलचराचरमिदं जगत्सुप्तं लोष्टनिष्पन्नं वेति प्रतिभासकारणेन निर्विकल्पसमाधिनानुभवनं भावनमस्कार इति भावनमस्कारलक्षणं । द्रव्यनमस्कारसूचितो भावनमस्कारः कथं घाटष्यते इत्यशंका भवतां चेतसि वर्तते तदुत्तरं शृण्वंतु भवंतः। रसा शंगारादयो लोके प्रसिद्धास्तेषां मध्ये चरमः शांतरसः अनादिकालप्रज्वलितपंचप्रकारसंसारदुःखमहादावानलविध्यापनसमर्थत्वात् परमानंदोत्पादकत्वाच्च शोभनविशेषणविशिष्टो भवति । ततः संसारशरीरभोगेषु परमानर्वेदमापन्नैः परमयोगीश्वरैः सुरसेन सकलाध्यात्मकलाविलासास्पदीभूतेन शांतरसेन निर्विकल्पसमाधिना वंदितमनुभूतं सुरसेनवंदितं । वंदितमनुभूतमित्येतस्मिनर्थे कथमिति चेत् । सत्यं । वदि आभिवादनस्तुत्योः,वदि इत्ययं धातुरभिवादने नमस्कारे स्तुतौ स्तवने चेत्यर्थद्वये वर्तते । स्तुतिस्तु वचसा मनसा च कृत्वा द्विविधा । यत्र केवलेन वस्तुतत्त्वैकनिष्ठेन मनसा योगेन स्तुतिविधीयते तत्र तस्या अनुभूतिपर्यायः केन निषिध्यते ततो वदितमनुभूतमित्यर्थः कथं न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org