________________
टीकासहितः।
घटते । समाध्यवस्थास्वीकृतशांतरसेन मनसानुभूतामति ताडितार्थः । तथा च द्वितीयपक्षे रसशब्दः स्वादोपि वर्तते । ये किल पंचेंद्रियविषयामिषस्वादास्ते जीवस्य जलौकाजंतुविशेषस्य दुष्टरुधिरपानवदतृप्तिजनकत्वाच्च न शोभनाः। अयं तु वीतरागनिर्विकल्पसमाधिनानुभत्यमानः स्वस्वभावोत्थः परमातींद्रियसुखरसास्वादः संसारतृष्णास्फेटकत्वाद्वैरस्याभावात् प्रतिसमय साररसस्य संपादकत्वाच्च विशेषतः शोभनविशेषणेन विशेष्यते । ततः सुरसेन निर्विकल्पसमाधिजन्यमानपरमानंदातींद्रियसुखस्वादेन वंदितमनुभूतमित्यर्थद्वयाश्लिष्टभावनमस्कारप्रतिपादको द्वितीयश्छायार्थः ॥ तृतीयपक्षे सुरसेण वंदियमित्येकविभक्त्यंतस्य खंडनत्रयं विभज्य व्याख्या विधीयते कथं । सुरसेणवंदियं सुरसे णवं दियं सुरसे नवं द्विजमिति । कथंभूतं सिद्धं । द्विजं द्विजमिव द्विजं ब्राह्मणं । क । सुरसे स्वस्वभावामृतजले । रसशब्दो जलेप्यस्ति जलं तु स्नानपानशौचकारणं स्यात् । ततः सिद्धात्मनां स्नानपानशौचकारणगुणोपचारात् स्वस्वभावोत्थममृतजलं शोभनविशेषणविशिष्टमभिधीयते तस्मिन्,नान्यास्मन् लौकिकक्षीरसागरगंगादितीर्थसमुद्भूते। ब्राह्मणा हि स्नानाचमनशौचपरायणा गंगादिमहातीर्थजलेषु निलीना भवंति । ततः सिद्धात्मनां सर्वकालस्वस्वभावामृतजलनिलीनानां ब्राह्मणोपचाररूपकालंकारविशेषणमास्मिन् व्याख्याने न दोषाय । पुनः किंविशिष्टं । नवं प्रतिसमयस्वभावोत्थानंतगुणानामनुभवनमुख्यतया नवमिति यावत् । अथवा अनवं न नवः अनवस्तं अनवं द्रव्यस्वभावापेक्षया पुरातनमनादिकालीनमित्यर्थः । तथा चास्मिन्नेव पदखंडनत्रये अन्यापि व्याख्या भवति, शोभनो रसो जलं पानीयं विद्यते यस्मिन्निति सुरसो मानससरोवरः यतो लोके किलैषा सिद्धिः।
" अस्ति यद्यपि सर्वत्र नीरं नीरजमंडितं ।
रमते न मरालस्य मानसं मानसं विना ॥" इति सुभाषितत्वात् । ततः सर्वेषु जलाशयेषु मानससरोवर एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org