________________
६
सुरस इत्याख्यायते । अत्र तु स्वस्वभावोत्थपरमामृतरसपूरपरिपूर्णत्वात् सुरसो मोक्षाभिधानमानससरोवरो गृह्यते । किंविशिष्टं सिद्धं । द्विजं पक्षित्वात् द्विजग्रहणेन सामान्यत्वात्सर्वे पक्षिणां गृह्येते । कुतः । हंसविशेषग्रहणविशेषणसामर्थ्येन । किंविशिष्टं द्विजं । अनवं पुरातनं पुरातनशब्दस्तु ज्येष्ठगरिष्ठोत्तमप्रधानार्थेषु प्रवर्तते । ततोऽनवमिति विशेषणेन सकलपक्षिज्येष्ठत्वाद्गरिष्ठत्वादुत्तमत्वात्प्रधानत्वाच्च द्विजो हंस एव लभ्यते । क । सुरसे । मोक्षमानससरोवरे । यथा मानससरोवरे हंसास्तिष्ठति तथा मोक्षमानससरोवरे सिद्धहंसास्तिष्ठति इत्यभिप्रायः । इति पदखंडनत्रयसमुद्भूतार्थइयगर्भस्तृतीयश्छायार्थः । तथा च चतुर्थपक्षे रसशब्देन वीर्य ततः सुष्टु अतिशयवान् कर्मारिचक्रशातनत्वात् रसो वीर्य बलं यस्य स सुरसः अर्थसामर्थ्यान्मुनिसमुदयः तस्यैव तत्र प्रधानत्वात् नान्ये रणशूरा सुभटाः रौद्रध्यानाधीनतया नारकगतिसाधकत्वात्, सुरसेन मुनिसमुदायेन वंदितं निर्विकल्पसमाधिनानुभूतं सुरसेन वंदितमिति चतुर्थश्छायार्थः ॥ पंचमे पक्षे रसशब्द रागेपि वर्तते । शोभनः संवेगास्तिक्यानुकंपादिगुणविशिष्टलक्षणो रसो रागो यस्य स सुरसः अर्थाच्चतुर्थगुणस्थानादिवर्ती सरागसम्यग्दृष्टिजीववृंदं तस्यैव तत्र प्रवर्तनत्वात् । न तु संसारसमुद्रसंपातकारणस्रक्चंदनवनितादिविषयसुखरागरसलंपटो महामिथ्यात्वाविष्टो जंतूत्कर: किंतु स कुरस एव अनंतभवभ्रांतिसाधकत्वात् तेन सुरसेणं वंदितं नमस्कृतं स्तुतमनुभूतं सुरसेन वंदितं यतः सरागसम्यग्दृष्टयो जीवा संवेगास्तिक्यपरमानुकंपादानपूजाषडावश्यक क्रियामूलोत्तरगुणपरायणाः शास्त्रे व्यावर्णिताः । वीतरागसम्यग्दृष्टयस्तु प्रतिगुणस्थानमनंतगुणविशुद्धितोयप्रक्षालितपरिणामत्वात् केवलेन सकलक्रियाकांडगर्भेण निविकल्पसमाधिना परमात्मानमनुभवति । एवं सरागवीतरागयोः सम्यग्दृशो
आराधनासारः
दो भवतीत्यभिप्रायः इति पंचमश्छायार्थः ॥ तथा च षष्ठे पक्षे सुरसेण वंदियमित्यस्य पदत्रयं विधायार्थं समर्थ्यते : सुरसेण वं दियं, रसशब्देन विषं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org