________________
टीकासहितः।
"विषः क्ष्वेडो रसस्तीक्ष्यमिति" विश्वः । ततोऽनंतानंतजन्ममहामूर्छाबीजत्वप्राणापहारकत्वात् सुष्टु अतिशयवान् योऽसौ रसो विषः स सुरसः सुविषः व्युत्पत्त्या कर्मैव नतु हालाहलादिः तस्य एकजन्मन एव प्राणापहारकत्वात् । ततः कथंभूतं सिद्धं । तेन सुरसेन कर्मणा दितं खंडितं ' दो अवखंडने' वियोजितमिति यावत् । यथा किल खंडितः पदार्थः उभयापेक्षया वियोजितः स्यात् तथा चायं सिद्धः कर्मणा वियोजितः पृथग्मूत इत्यर्थः । पुनः किं विशिष्टं । वं पश्चिमदिगीशं "वः पश्चिमदिगीशे स्यादित्यभिधानात्" । पश्चिमदिगीशमित्युक्ते कोर्थो लभ्यते । पश्चिमश्चासौ दिक् पश्चिमदिक तस्या ईशः स्वामी । इह दिकशब्दो गत्यर्थे गृह्यते यतो जीवस्य सर्वाभ्यो गतिभ्यः पश्चिमा चरमा गतिमुक्तिर्भवति ततः पश्चिमदिगीशं मुक्तिस्वामिनमित्यभिप्रायः इति षष्ठश्छायार्थः । सप्तमेपि पक्षे रसशब्दो देहधातुषु वर्तते अत्राप्युपरितनपदखंडनत्रयं विगृह्य व्याख्या विधीयते । सुष्टु अतिशयेन रसा असृझज्जामेदोस्थिप्रमुखाः शरीरधातवो यस्मिन् स सुरसः शरीरमेव । किंविशिष्टं सिद्धं । दितं खंडितं हितं वियोजतमिति यावत् । केन । सुरसेन शरीरेण । पुनः किंविशिष्टं । वं पश्चिमदिगीशं मुक्तीशमिति सप्तमश्छायार्थः । अष्टमेपि पक्षे रसशब्दो बोले वर्तते बोलशब्दस्तुगंधरसे प्राणार्थेपि वर्तते “बोलो गंधरसे प्राणे इत्यभिधानात्" इह तु प्रयोजनवशात् प्राणार्थ गृह्यते, सुष्ठु अतिशयवता रसेन बोलेन पंचेंद्रियादिदशप्राणसमुदायेन दितं खंडितं वियोजितमिति वमिति पूर्वोक्तमेवेत्यष्टमश्छायार्थः ॥नवमे पक्षे रसशब्दस्तिक्तादौ वर्तते तिक्ताम्लमधुरकटुकषायरसनेंद्रियविषयाः सर्वजनप्रसिद्धाः। तिक्तादिरित्युपलक्षणं रूपादीनां ग्राहकत्वात् शोभनस्तिक्तादिरसोपलक्षणः स्पर्शरसगंधवर्णशब्दसमुदयः सुरसः सुरसेन तिक्तादिरसोपलक्षणेन स्पर्शरसगंधवर्णशब्दसमुदायेन दितं खंडित रहितं वियोजितमिति यावत् । उक्तं च परमात्मप्रकाशे
" जासु ण वण्णु ण गंधु रसु जासु ण सद्दु ण फासु । जासु ण जम्मणु मरणु णवि णामु णिरंजणु तासु ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org