________________
आराधनासारः
__इति। पुनः किं विशिष्टं । वमिति पूर्वोक्तमिति नवमश्छायार्थः ॥ दशमे पक्षे रसशब्दो वेपि वर्तते सुष्टु द्रवति शुद्धगुणपर्यायान् परिणमतीति सुद्रवः सुद्रवेण शुद्धद्रव्यगुणपर्यायपरिणमनशीलेन वंदितमभिनंदितं समृद्धमिति यावत् । धातूनामनेकार्थत्वात्, धातवो हि गजेन्द्रलक्षणाः स्वच्छंदचारित्वात् अनेकार्थविंध्याचलवनं पर्यटंतीति दशमश्छायार्थः ॥ तथैकादशेपि पक्षे रसशब्दः पारदेपि वर्तते पारदस्य वस्तुविशेष विमुच्य निरुक्तिवशादर्थातरं गृह्यते, नामानि हि समस्याप्रहेलिकाछलादिकौतुकप्रयोजनेन बलादर्थातरेण नीयंते न दोषाय । सुष्टु अतिशयेनाजवंजवसागरं पारं ददातीति पारदः स्वपरोद्धरणशीलः पंचाचारविराजमान आचार्यसमुदायः सुपारदः सुरसस्तेन वंदितमभिनंदितमित्येकादशश्छायार्थः । “जले वीर्ये विषे रागे तिक्तादौ देहधातुषु । द्रवे त्रिनेत्रवीर्ये च रसशब्दः प्रकीर्तितः" इत्यनेकार्थः । द्वादशे पक्षे ग्रंथकारेण श्रीसुरसेनाचार्येण निजनाम सूचितमिति प्रसिद्धं। आगमार्थो हि प्रसिद्ध एव यत एवं गुणविशिष्टाः सिद्धा भवत्येव । मताथस्तु सकलमतनिराकरणशीलो विशेषणद्वारेण विजयते। यद्यपि परमतेषु मिथ्यादृष्टिसुरसमुदायनमस्कृताः किंचिञ्चमत्कारमात्रपराक्रमेण महावीराः अंजनगुटिकादिसिद्धाः प्रसिद्धा न ते विमलतरगुणसमृद्धमंडिताः ततो विमलतरगुणसमृद्धमिति विशेषणं स्वमतोपात्तसिद्धलक्षणविजयेन परमतोपात्तपराजयेन निःशंकं प्रद्योतते । भावार्थश्चायं, यो यद्गुणार्थी भवति स तद्गुणविशिष्टपुरुषविशेष नमस्कुरुते अयं तु स्वामी श्रीसुरसेनाचार्यः मुमुक्षुरन्यांश्च मुमुक्षून् मोक्षमार्ग नेता चतुर्विधाराधनासारफलप्राप्तं सिद्धपरमात्मानं नमस्कृत्य ग्रंथारंभे प्रवर्तते । अनेन द्वारेण प्रोक्तार्थसमुदायः स्वावसरे स्वावसरे सर्वत्र ज्ञातव्यः । गाथा छंदः । गाथापादत्रयेण स्वेष्टदेवतानमस्कारप्रतिपादनेन चरमपादेनाराधनासारं वक्ष्येऽहमिति प्रतिज्ञाकरणे प्रथमगाथासूत्रं गतं ॥१॥
अथ निर्दिष्टाराधनासारस्य गाथापूर्वार्धेन लक्षणमपरार्धेन तद्विभागं च दर्शयति;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org