________________
टीकासाहतः।
आराहणाइसारो तवदंसणणाणचरणसमवाओ। सो दुब्भेओ उत्तो ववहारो चेव परमठो ॥२॥
आराधनादिसारस्तपोदर्शनज्ञानचरणसमवायः ।
स द्विभेद उक्तो व्यवहारश्चैव परमार्थः ॥ २ ॥ भवतीति क्रियापदमध्याहृत्य व्याख्या विधीयते । भवति । कोसौ । आराहणाइसारो आराधनादिसारः आदिपदग्रहणस्य गाथाछंदसः प्रथमपादस्य द्वादशमात्रापूरणार्थमेव प्रयोजनं नान्यत् । यथा दशादिरथः दशपूर्वकंधरः भीमादिसेन इत्यादिप्रयोगात् छंदःपूरणार्थ कवयः प्रयुंजते न दोषाय । आराधनेति पदमादौ यस्य सारस्य असौ आराधनासारः इति लक्ष्यनिर्देशः कृतः । किंलक्षणः। तवदसणणाणचरणसमवाओ तपोदर्शनज्ञानचरणसमवायः । आदौ तपोग्रहणमपि छंदःपूरणाय तपश्च दर्शनं च ज्ञानंच चरणं च तपोदर्शनज्ञानचरणानि एतेषां समवायः समुदायस्तपोदर्शनज्ञानचरणसमवायः तपोदर्शनज्ञानचरणान्येतानि चत्वार्यपि आस्मिन्नेवाराधनासारे समवेताज्ञवकासमतिजातानि(?)ततस्तपोदर्शनज्ञानचरणसमवाय इति सम्यग्लक्षणमाराधनासारस्य भवति। अथायमभेदः सभेदो वेत्याशंकायां विभागं सूचयति । उत्तो उक्तः । कोऽसौ यः । स आराधनासारः । कतिभेदः । दुब्भेओ द्विभेदः द्वौ भेदौ यस्यासौ विभेदः । को तावित्याह । ववहारो एको व्यवहारः परमहो एकश्च परमार्थः व्यवहाराराधनासारः परमार्थाराधनासार इत्यर्थः इति योजनिकाद्वारः ( तपोदर्शनज्ञानचरणसमवाय आराधनासारो भवति स व्यवहारः परमार्थश्चैवेति द्विभेद उक्तः इति संक्षेपान्वयद्वारः इत्याराधनासारलक्षणविभागप्रतिपादकं द्वितीयं गाथासूत्रं गतं ॥ २ ॥
अथादावुद्दिष्टस्य प्रथमभेदस्य व्यवहाराराधनासारस्य लक्षणं सविभागं प्रतिपादयति;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org