________________
१०
आराधनासारः
ववहारेण य सारो भणिओ आराहणाचउक्कस्स । दंसणणाणचरितं तवो य जिणभासियं णूणं ॥ ३ ॥ व्यवहारेण च सारो भणित आराधनाचतुष्कस्य । दर्शनज्ञानचरित्रं तपश्च जिनभाषितं नूनम् ॥ ३ ॥
भणिओ भणितः प्रोक्तः । कोऽसौ । सारो सारः रहस्यो धारः । कस्य आराहणाचउक्कस्स आराधनाचतुष्कस्य । केन । ववहारेण व्यवहारेण व्यवहरणं व्यवहारः यथोक्तक्रियाचारस्तेन चकारोन्नुक्तसमुच्चयार्थः तेन परमात्माध्यानावस्थायां निश्वयेन च । यदुक्तं
" ज्ञानदर्शनचारित्रतपोभिर्जिनभाषितैः । आराधनाचतुष्कस्य व्यवहारेण सारता " ॥
तैरेव परमब्रह्म ध्यानात्तन्मयतां गतैः आराधनाचतुष्कस्य निश्चयेन च सारता । किं तत् आराधनाचतुष्कं । दंसणणाणचरित्तं दर्शनज्ञानचारित्रं न केवलं दर्शनज्ञानचारित्रं । तपश्च । किंविशिष्टं । जिणभासियं जिनभाषितं जिनेन वीतरागेन सर्वज्ञेन भाषितं प्रतिपादितं जिनभाषितं अत एव नूनं निश्चितं । यदेव हि जिनोक्तं तदेव नूनं जितरागादिद्वेषत्वात् । यदुक्तं - रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतं । नैते दोषास्तस्यानृतकरणं नास्ति " ॥
(6
यस्य तु ततो जिनभाषितान्येव दर्शनज्ञानचारित्रतपांस्युपादेयानि सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक् चारित्रं सम्यक् तपश्वेत्यस्य चतुष्कस्य यदाराधना उपासना विधीयते तदाराधनाचतुष्कं । अत्र प्रवृत्तिर्व्यवहाराराधनासारो भवतीति रहस्यामिति योजनिकाद्वारः । आराधनाचतुष्कस्य व्यवहारेण सारो भणित: नूनं जिनभाषितं दर्शनज्ञानचारित्रं तपश्चेति चतुष्कं भवतीति विशेष इति संक्षेपान्वयद्वारः ॥ इति व्यवहाराराधनासारलक्षणप्रतिपादनेन तृतीयं गाथासूत्रं गतं ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org