________________
टीकासहितः।
११
अथ व्यवहाराराधनासारसामान्यलक्षणं प्रतिपाद्य तस्य प्रथमभेदस्य सम्यग्दर्शनाराधनाया लक्षणं प्रतिपादयति;
भावाणं सद्दहणं कीरइ जं सुत्तउत्तजुत्तीहि । आराहणा हु भणिया सम्मत्ते सा मुर्णिदेहिं ॥४॥ भावानां श्रद्धानं क्रियते यत्सूत्रोक्तयुक्तिभिः ।
आराधना हि भणिता सम्यक्त्वे सा मुनींद्रैः ॥ ४ ॥ भणिया भाणता । काऽसौ । सा आराहणा आराधना । कथं । हु खलु, हुशब्दः खल्वर्थे प्राकृतत्वात् । कैः । मुणिंदोहं मुनींद्रैः । क। सम्मत्ते सम्यक्त्वे । सेति का । कीरइ क्रियते । किं तत् । यत् । यदिति किं । सद्दहणं श्रद्धानं विश्वासो रुचिः प्रतीतिरिति यावत् । केषां । भावाणं भावानां जीवादिपदार्थानां । काभिः करणताभिः। सुत्तउत्तजुत्तीहिं सूत्रोक्तयुक्तिभिः सूत्रे परमागमे उक्ता या युक्तयः सूत्रोक्तयुक्तयस्ताभिः सूत्रोक्तयुक्तिभिरिति योजनिकाद्वारः । सूत्रोक्तयुक्तिभिर्यद्भावानां श्रद्धानं क्रियते सम्यक्त्वे सा आराधना मुनींद्रणिता खलु इति संक्षेपान्वयद्वारः । तथाहिद्रव्यगुणपर्याया एतेषु भवतीति भावा जीवादयो नव पदार्था भवंति । एतेषां किंचिनिर्देशः क्रियते । तत्र चेतनालक्षणो जीवः तद्विलक्षणः पुद्गलधर्माधर्माकाशकालस्वरूपपंचविधोऽजीवः, योगद्वारेण कर्मागमनमास्रवः, जीवकर्मणोरन्योन्यप्रदेशप्रवेशात्मको बंधः, आस्रवनिरोधः संवरः, कर्मणामकदेशगलनं निर्जरा, बंधहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः, शुभायुर्नामगोत्राणि पुण्यं, अतोन्यत्पापं । अमी नव पदार्थसंज्ञां लभंते । उक्तस्य पंचविधस्याजीवस्य निर्देशो विधीयते । तत्र स्पर्शरसगंधवर्णवंतः पुद्गलाः, जीवपुद्गलानां गतेः सहकारिकारणं धर्मः, स्थानयुक्तानां स्थितेः सहकारिकारणमधर्मः, सर्वद्रव्याणामवकाशदानदायकमाकाशं, वर्तनालक्षणः कालः । अमी कालेन विना जीवेन सह पंचास्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org