________________
आराधनासारः
कायसंज्ञां लभते । पुण्यपापाभ्यां विना नव पदार्थाः सप्त तत्त्वसंज्ञां लभते । एतेषां सप्रपंचविशेषाः परमागमतो विज्ञेया अत्र तु नोच्यते ग्रंथगौरवमयात् बहुषु ग्रंथेषु प्रोक्तत्वाच्च । अमी यथा जिनेंद्रेण प्रतिपादितास्तथैव सम्यक्त्वलिंगिता भवंति नान्यथेति विश्वासः प्रतीतिः रुचिः श्रद्धानं भण्यते । तच्च तन्निसर्गादधिगमावति वचनात्कारणद्वयमद्भवति । जीवस्य अनादिकालकर्मपटलाष्टकमात्मानं मिथ्यात्वं वापि न परित्यजति । तद्विविधं अगृहीतगृहीतभेदात् । प्रथमं तावत्सकलस्य जीवराशेर्भवति तदुदयेन तत्त्वातत्त्वश्रद्धानं किमपि न भवति । तत्र सम्यग्वि. परीततत्त्वश्रद्धानयोयोरप्यनवकाशत्वात् । द्वितीयं तु विशिष्टपंचेद्रियजीवराशेर्भवति तदुदयेन जीवो विपरीतं तत्त्वं श्रद्धत्ते न सम्यक् । यदा तुलब्धकालादिलब्धिको भवति जीवस्तदा निसर्गाधिगमाख्यकारणद्वयं प्रामोति । निसर्गः स्वभावः आचार्यादीनां धर्मोपदेशविशिष्टोपायः अधिगमः । निसर्गेणापि पूर्वमधिगमेन भूत्वा भाव्यं अन्यस्मिन् जन्मनि भावितयोगत्वात् । ततः अधिगम एव सम्यक्त्वोत्पत्तिनिमित्तं प्रधानं निसर्गे अधिगमे वा सत्यपि जीव औपशमिकं क्षायोपशमिकं क्षायिकं चेति कारणत्रयं समाश्रित्य तत्त्वश्रद्धानं विधत्ते । अथैतेषां औपशमिकादीनां यथानुक्रमेण लक्षणमाह । लक्षणं द्विविधं सामान्यविशेषभेदात् । एकव्याक्तिनिष्ठं सामान्य अनेकव्यक्तिनिष्ठो विशेषः । तत्र तावत्सामान्यलक्षणमुच्यते । आत्मान कर्मणः स्वशक्तेः कारणवशादनुद्भूतिरुपशमः कतकादिद्रव्यसंबंधादंभसि पंकस्यानुभूतिवत् । आत्यंतिकी निवृत्तिः क्षयः तस्मिन्नेवांभसि शुचिभाजनांतरसंक्रांते पंकस्यात्यंताभाववत् । उभयात्मको मिश्र तस्मिन्नेवांभसि कतकादिद्रव्यसंबंधात् पंकस्य क्षीणाक्षीणवृत्तिवत् । उपशमः प्रयोजनमस्येत्यौपशमिक, क्षयः प्रयोजनमस्येति क्षायिकं, क्षयोपशमः प्रयोजनमस्यति क्षायोपशमिकं । मोहनीयकर्मणः अनंतानुबंधिचतुष्टयं मिथ्यात्वत्रयं चेति सप्तानां प्रकृतीनामुपशमादौपशमिकं सम्यक्त्वं भवति । तत्कथं भवतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org