________________
टीकासहितः।
७३
इंद्रियविषयविकारा यावन्न त्रुट्यंति मनोगताः क्षपकः ।
तावन्न शक्नोति कर्तु परिहारं निखिलदोषाणाम् ॥ ५५ ॥ मनोगता इंद्रियविषयविकारा यावन्न त्रुट्यंति तावत् क्षपको निखिलदोषाणां परिहारं कर्तुं न शक्नोति। तथाहि-मणगया मनोगताः मनःप्राप्ता इंद्रियाणां रूपादिविषयाणां च परस्परं दूरादेव संबंधे सत्यपि तेषु मनसि संकल्पःसंप्रतिपद्यते तदनु मुहुर्मुहुः प्रसरणं यस्मात्तस्मात् मनोगता व्याख्यायंत इत्यर्थः । इंदियविसयवियारा इंद्रियविषयविकाराः इंद्रियाणां विषयास्त एव विकाराः। विकार इति कार्थः। स्वस्वभावात्प्रच्याव्यान्यथाभावे प्रेरणाशीलाः यावत्कालं ण तुझुति न त्रुट्यंति मनःसंगतिं परित्यज्य न गच्छंति ताव तावत्कालं खवओ क्षपकः कर्मक्षपणशीलपुरुषः णिहिलदोसाणं निखिलदोषाणां निखिलाः समस्ता रागद्वेषमोहादयो दोषास्तेषां परिहारो परिहारं मोचनं काउं कर्तु ण सक्का न शक्नोति कारणं विना कार्य न दृष्टमिति वचनात् । इंद्रियविषयविकारपरिहारकारणाभावे निखिलदोषाभावः कार्य न संभवति । तस्मात्तपस्विना समंतत इंद्रियविषयविकारा'निराकृत्य रागादिदोषाभावेन शुद्धपरमात्मा भावितव्य इत्यभिप्रायः ॥ ५५॥
नन्विद्रियमल्लनिहितानां क्वाश्रयोऽज्ञानिनां भवति तत्प्रतिपादयति;इंदियमल्लेहिं जिया अमरासुरणरवराण संघाया। -सरणं विसयाण गया तत्थवि मण्णंति सुक्खाइ ॥५६॥
इंद्रियमल्लैनिता अमरासुरनरवराणां संघाताः।।
शरणं विषयाणां गतास्तत्रापि मन्यते सौख्यानि ॥ ५६ ॥ अमरासुरवराणां संघाताः संतो विषयाणां शरणं गतास्तत्रापि सौख्यानि मन्यते । तथाहि-अमरासुरणरवराण अमरासुरनरवराणां अमरा देवाः कल्पवासिनः असुराः दैत्या भवनवासिनो वा नरवराः नराणां मध्ये वराः श्रेष्ठाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org