SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७४ आराधनासारः मनुष्येषु मध्ये शास्त्रेण शौर्येण वीर्येण विज्ञानेन लब्धप्रतिष्ठा ये ते नरवराः कथ्यंते, अमराश्च असुराश्च नरवराश्च ते अमरासुरनरवरास्तेषां संघाया संघाताः समुदायाः। कथंभूताः संतः। इंदियमल्लहिं जिया इंद्रियमल्लैर्जिताः संतः इंद्रियाण्येव मल्लानि विड्दु:खावाससंसारगर्भपातकत्वात् इंद्रियमल्लास्तैः इंद्रियमल्लैः । गया गता प्राप्ताः । किं । शरणं आश्रयं केषां । विसयाणं विषयाणां इन्द्रियार्थानां तत्थवि तत्रापि च तत्र तेषु स्रक्चंदनवनितावातायनादिषु विषयेषु मण्णंति मन्यते विदति । कानि। सुक्खाइ सौख्यानि न खल्वियं प्रवृत्तिस्तत्त्वविदा चित्तेषु चमच्चरिकरीति नैते विषयाः शरणं गतानां स्वप्नेपि त्रायकाः । यदुक्तं मीना मृत्यु प्रयाता रसनवशमिता दंतिन: स्पर्शरुद्धा __ नद्धास्ते वारिमध्ये ज्वलनमुपगताः पत्रिणश्चाक्षिदोषात् । भुंगा गंधोद्धताशाः प्रलयमुपगता गीतलोलाः कुरंगाः कालव्यालेन दष्टास्तदपि तनुधियामिद्रियार्थेषु रागः ॥ प्रत्युत दुःखदा एव । यतः न तदरिरिभराजः केशरी केकिस्तुत्यो नरपतिरतिरुष्टः कालकूटोतिरौद्रः । अतिकुपितकृतांतः पन्नगेंद्रोपि रुष्टः यदिह विषयशत्रुर्दुःखमुयं करोति । तदिंद्रियमल्लैर्जितेनापि क्षपकेण प्रसह्य विषयाणां शरणं विहाय तत्र चः सुखान्यवगणय्य परमब्रह्मपदमेव शरणं गतव्यं तत्रैव परमसौख्यं मत्त्वेष्टव्यमिति भावः । यतः-- "अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy