________________
टीकासहितः।
, वजंतः स्वातंत्र्यादतलपरितापाय मनसः ।
___ स्वयं त्यक्ता ह्येते शमसुखमनंतं विदधति ॥ ५६ ॥ हषीकजं सुखं सुखं न भवति ततस्तस्मिन् वैमुख्यं विधातव्यमिति स्तवयति;इंदियगयं ण सुक्खं परदव्वसमागमे हवे जम्हा । तम्हा इंदियविरई सुणाणिणो होइ कायव्वा ॥५७॥ इद्रियगतं न सौख्यं परद्रव्यसमागमे भवेद्यस्मात् । तस्मादिद्रियविरतिः सुज्ञानिनो भवति कर्तव्या ॥ ५७ ॥ भो क्षपक इंदियगयं ण सुक्खं इन्द्रियगतं न सौख्यं सौख्यं न भवति। कीदृशं । इन्द्रियगतं हृषीकसंभवं विचार्यमाणं सुखं न भवति किंतु सुखाभावमेव । कुतः. सौख्यं न भवति इत्याह । परद्रव्यसमागमे सति भवेत् जायेत परद्रव्याणि अन्नपानवसनतांबूलस्रक्चंदनवनितादीन तेषां समागमः सम्यगागमनं परद्रव्यसमागमस्तस्मिन् परद्रव्यसमागमे । यतः परद्रव्यसमागमादिंद्रियजं सुखमुपजायते ततश्च दुःखमेव । यदुक्तम्
सुखमायति दुःखमक्षजं भजते मंदमतिर्न बुद्धिमान् । मधुलिप्तमुखाममंदधीरसिधारां खलु को लिलिक्षति ।।
यदींद्रियजं सुखं वास्तवं न भवति तर्हि किं कर्तव्यमित्याह । तम्हा इंदियविरई तस्मात्कारणात् इंद्रियविरतिः विरमणं विरतिः इंद्रियेभ्यो विरति: इंद्रियविरतिः। इंद्रियजेषु सुखेषु वैमुख्यमित्यर्थः । कायव्वा कर्तव्या इंद्रियसंभवसुखविरतिः कर्तव्या हवे भवेत् । सा कस्य कर्तव्या भवतीत्याह। सुणाणिणो सुज्ञानिनः शोभनं ज्ञानं परमानंदामृतसंभृतावस्थस्य परमा- . त्मनः परिज्ञानं शोभनं ज्ञानमुच्यते सुज्ञानमस्यास्तीति सुज्ञानी तस्य सुज्ञानिनः । ततो विषयजं सुखं विनश्वरं निस्सारं ज्ञात्वा अविनश्वरे स्वात्मोत्थे सुखे रतिर्विधातव्या सुज्ञानिन इति भावार्थः॥ ५७ ॥ इंद्रियजयाधिकारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org