SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आराधनासारः ननु मनोनृपप्रेरितायामवश्या या मिंद्रियसेनायांया प्रसरंत्यां क्षपकेण किं कर्तव्यमित्यावेदयति;इंदियसेणा पसरइ मणणरवइपेरिया ण संदेहो। तम्हा मणसंजमणं खवएण य हवदि कायव्वं :॥ ५८ ॥ इंद्रियसेना प्रसरति मनोनरपतिप्रेरिता न संदेहः । तस्मान्मनःसंयमनं क्षपकेण च भवति कर्तव्यम् ॥ ५८ ॥ इंदियणा इंद्रियाणि हृषीकाणि तान्येव सेना चमू इंद्रियसेना मणगरवइरिया मनोनरपतिप्रेरिता मनश्चित्तं तदेव नरपतिः राजा तेन प्रेरिता आदिष्टा सती पसरइ प्रसरं करोति ण संदेहो संदेहः संशयो न, यस्मादित्यध्याहारः । यत्तदोर्नित्यसंबंध इत्यभिधानात् तम्हा तस्मात् कारणात् मणसंजमणं मनःसंयमनं मनश्चित्तं तस्य संकोचनं स्पर्शादिविषयेभ्यो व्यावृत्य सहजशुद्धचिदानंदैकस्वभावसकलविकल्पविकलात्मपरमात्मतत्त्वैकाग्रचिंतायां स्थापनमित्यर्थः । खवयेण क्षपकेन कर्मक्षपणशीलेन पुरुषेण कायव्वं कर्तव्यं करणीयं च भवति । तथाहि । यथा सैन्यस्य राजा नायको भवति तथा इंद्रियाणां मनो नायकः नायकैनैवादिष्टं सैन्यं प्रसरति न हि नायकमंतरेण क्वचित्कथंचित्तत्सामर्थ्य विज़ुभते । अत्र तत्त्वविचारचतुरचेतसां चेतोनिकेतने कथं नाम संशयबिलेशयो विलसति ने क्वापि । अतः इंद्रियाणि निगृहीतुमना मनसि प्रथमं मनःसंयमनं तनोतु इति तात्पर्यार्थः ।। ५८ ॥ इंद्रियाणि मनःप्रेरितानि प्रसरंतीति व्याख्यायेदानी मनोनरेंद्रस्य सामर्थ्य यथा तथा दर्शयति;मणणरवइ सुहुभुंजइ अमरासुरखगणरिंदसंजुत्तं । णिमिसेणेक्केण जयं तस्तथि ण पडिभडो कोइ ॥५९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy