SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ टीकासहितः । ये तु पुरुषा मनसो निवारणं न कुर्वति ते कथंभूता भवतीत्याह--- मणकरहो धावंतो णाणवरत्ताइ जेहिं ण हु बद्धो । ते पुरिसा संसारे हिंडंति दुहाई भुजंता ॥ ६२ ॥ मनःकरभो धावन् ज्ञानवस्त्रया यैर्न खलु बद्धः । ते पुरुषाः संसारे हिंडन्ते दुःखानि भुंजंतः ॥ ६२ ॥ मणकरहो मनः करभः मन एव करभ उष्ट्र: पांठातरण कलभः करिशावको वा धावंत धावन् प्रसरन् सन् जहिं यैः पुरुषैः णाणवरत्ताइ ज्ञानवरत्रया बोधरज्जुरूपया ण बद्धो न बद्धः न संकोचितः ते पुरिसा ते पुरुषाः संसारे आजवंजवे द्रव्यक्षेत्र कालभवभावलक्षणे दुहाई दुःखानि व्याकुलत्वोत्पादकलक्षणानि भुजंता भुंजंतः अनुभवंतः हिंडंति हिंडते परिभ्रमति खलु निश्चयेन । तथाहि - यथा कश्चन करमरक्षायां नियुक्तो गजरक्षणे वा पुरुषः करभं गजं वा राजमंत्रिपुरोहितादीनां नंदनवनं प्रति विध्वंसनाय धावंतं वरत्रांकुशादिना कृत्वा यदि न निवारयति स तदा नंदनवनविध्वंसनापराधं विलोक्य लोकाचारविचारचतुरचातुरीचमत्कारनीतिशास्त्रानुसारविलोकितन्यायमार्गेण नरपतिना निगृह्यमाणः कारागाराय'नेकविधदुःखान्यानुभवति स्वाधिकारक्रियाकूटकारित्वात् । यः ७९ कश्वन स्वाधिकार क्रियाकूटं कुरुते स एवंविधो न संदेहः तथेदं विषयेषु प्रवर्तमानं मनो नियंत्रणीयमिति । उक्तंच अनेकांतात्मार्थप्रसवफलभारातिविनिते वचःपर्णाकीर्णे विपुलनयशाखाशतयुते । समुत्तंगे सम्यक् प्रततमतिमूले प्रतिदिनं श्रुतस्कंधे धीमान् रमयतु मनोमर्कटममुम् ॥ वीतराग सर्वज्ञवचनैर्नियुक्तो जनो यस्तु ज्ञानभावनया न निवारयति सबराकश्चतुरशीतिशतसहस्रपरिमाणेषु योनिषु संसारदुःखानि सहते न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy