________________
७८
आराधनासारः
तेषां मरणे मोक्षो मोक्ष प्राप्नोति शाश्वतं सौख्यम् ।
इंद्रियविषयविमुक्तं तस्मान्मनोमारणं कुरुत ॥ ६१ ॥ युग्मं । मणणरवइणो मरणे मनोनरपतेर्मरणे मनसो विकल्पाभावे सति 'संकल्पविकल्पस्वरूपं हि मन इति निर्वचनात् ' मरंति सेणाइ इंदियमयाइं इंद्रियमयानि सैन्यानि नियंते स्वकीयस्वकीयविषयेषु तानींद्रियाणि न प्रवर्तत इत्यर्थः । स्वस्वामिप्रयोगाभावात् तदभावे हि तस्यैवाभावात् ताणं मरणेण पुणो तेषामिंद्रियाणां मरणेन निजविषयप्रवृत्तिराहित्येन पुमः पुनरपि णिस्सेसकम्माई निःशेषकर्माणि सकलकर्माणि ज्ञानावरणादीनि मरंति म्रियते क्षयं यांति तदवस्थायां बंधाभावात् । बंधाभावे हि नवतरकर्मणामास्रवाभावात् पुरातनकर्मनिर्जीयमाणत्वात् । आस्रवाभावो हि योगाभावात् योगाभावस्तु तदवयवस्वप्रवृत्तिनिषेधात् । तदवयवाश्च मनोवाक्कायलक्षणाः कायवाङ्मनःकर्म योगः इति लक्षणाभिधानत्वात् । ततो योगांगत्वात् मनसो विकल्पाभावपूर्वत्वे सतीद्रियाणां काययोगमयानां प्रवृत्तिनिषेधे सति संवरनिर्जरासद्भावात् सर्वाणि कर्माणि क्षयं यांति इति सिद्धं । तेसिं मरणे मुक्खो तेषां कर्मणां मरणे विनाशे सति मोक्षः अनंतज्ञानादिगुणव्यक्तिनिष्ठानां सिद्धपरमेष्ठिनामाधारः । बंधहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्ष इत्यभिहितत्वात् । मोक्षे किमस्तीत्याह । मुक्खे मोक्षे सर्वकर्मक्षयलक्षणे सासयं शाश्वतमविनश्वरं इंदियविसयविमुक्कं इंद्रियविषयविमुक्तं इंद्रियाणां हृषीकाणां विषया गोचरास्तैर्विमुक्तं रहितं सुक्खं सौख्यं निराकुलतालक्षणं पावेइ प्राप्नोति लभते यत एवं तम्हा तस्मात् । एवं ज्ञात्वा भो भव्याः मणमारणं कुणह मनोमारणं कुरुत । मनोमारणमिति कोर्थः । विषयेषु गच्छतो मनसो निवारणं कुरुत कुरुध्वमित्यर्थः ॥ ६० । ६१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org