________________
आराधनासारः
संदेहः । एवं ज्ञात्वा स्वसंवेदनज्ञानाभ्यासबलेन मन:प्रसरं निरुध्य शुद्धपरमात्मनि स्थापनीयमिति भावार्थः ॥ ६२॥
मनसो निरोधफलं व्याख्याय इदानीममुमेवार्थ बहुशास्त्रप्रसिद्धदृष्टांतेन दृढीकृत्य पश्चादवश्यं मुनिना मनोनिरोधो विधातव्य इत्युपदिशति;
पिच्छह णरयं पत्तोमणकयदोसेहिंसासिलित्थक्खो. इय जाणिऊण मुणिणा मणरोहो हवइ कायव्वो६३ प्रेक्षध्वं नरकं प्राप्तो मनःकृतदोषैः शालिसिक्थाख्यः । इति ज्ञात्वा मुनिना मनोरोधो भवति कर्तव्यः ॥ ६३ ॥
भो भव्यजनाः पिच्छह प्रेक्षध्वं पश्यत विलोकयत बहुशास्त्रेषु प्रसिद्धवाक्यं समाकर्णयत इत्यर्थः । किंतत् । मणकयदोसेहिं मनःकृतदोषैः चित्तविरचितापराधैः सालिसिथक्खो शालिसिक्थाख्यः मत्स्यविशेषः नरकं श्वभ्रं प्राप्तो गतः इति । इय जाणिऊण इति एवं ज्ञात्वा विज्ञाय मुनिना संयमिना मणरोहो मनोरोधः चित्तसंकोचः कायव्वो कर्तव्यः करणीयः हवह भवति युज्यते इति तात्पर्यम् । तथाहि । शालिसिक्थनाममत्स्यविशेषः महामत्स्यकच्छाकुले जलराशौ महामत्स्यकर्णे स्थितः । तस्य महानिद्रानुभवतो व्यावृतो मुखे अनेकामत्स्यादीनां जंतुचराणाः समूहाः प्रविशंति निःसरंति क्रीडंति स्वेच्छया तिष्ठति चेति पश्यन् व्याकुलत्वेन चिंतापरायणो जातः किमयं मूढात्मा मुखं न संवृणोति येन सर्वाणीमान्यस्योदरे तिष्ठति, यद्यहमेवंभूतोऽभविष्यस्तदा सकलानीमान्यकवलयिष्यमिति रौद्रध्यानपराधीनस्तेषामलाभेपि मनोरचितदुश्चरित्रेणैव तथाविधं पापं समुपायं नरकं गत इति श्रुतिः । एवं ज्ञात्वा मुनिसमूहेन मनोरचितदोषासमर्थः अनावरणत्वादिति संदेहं निमूर्त्य मनसो ज्ञानबलेन निरोध एव करणीय इति तात्पर्यार्थः ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org