SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ टीकासहितः। एवं चित्तानिरोधकस्य नरकगतिरेव फलं सदृष्टांतं प्रदर्श्य तनिरोधं कुरुध्वमित्युपदिश्य वाधुना मनोवशीकरणमुपदिश्य तत्फलं च निदर्शयति;सिक्खह मणवसियरणं सवसीढूएण जेण मणुआणं । णासंति रायदोसे तेसिं णासे समो परमो ॥ ६४ ॥ उवसमवंतो जीवो मणस्स सक्केइ णिग्गहं काउं । णिग्गहिए मणपसरे अप्पा परमप्पओ हवइ॥६५॥जुअलं। शिक्षध्वं मनोवशीकरणं स्ववशीभूतेन येन मनुजानाम् । नश्येते रागद्वेषौ तयोर्नाशे समः परमः ॥ ६४ ॥ उपशमवान् जीवो मनसः शक्नोति निग्रहं कर्तुम् । निगृहीते मनःप्रसरे आत्मा परमात्मा भवति ॥ ६५ ॥ युगलम् । मणवसियरणं मनोवशीकरणं मनो अवशं वशं करणं मनसश्चित्तस्य वशीकरणं आत्मायत्तीकरणं मनोवशीकरणं भो जनाः सिक्खह शिक्षध्वं अभ्यस्यतः जेण येन मनसा सवसीहूएण स्ववशीभूतेन स्वाधीनता गतेन मणुआणं मनुजानां मनुष्याणां रागदोसे रागद्वेषौ इष्टानिष्टयोः प्रीत्यप्रीतिरूपौ णासंति नश्यतः दूरीभवतः तेसिं तयो रागद्वेषयोः णासे नाशे विनाशे परमो परम उत्कृष्टः समः उपशमः वीतरागत्वाधारः भवतीति क्रियाध्थाहारः उवसमवंतो उपशमवान् रागद्वेषोपशमलक्षणवान् जीवो जीवः आत्मा मणस्स मनसश्चित्तस्य णिग्गहं निग्रहं विनाशं काउं कर्तुं सक्केइ शक्नोति समर्थो भवति मनःप्रसरे चित्तविस्तारे णिग्गहिए निग्रहीते साकांक्षचित्ते क्षयावस्थां नीते सति अप्पा आत्मा जीवः घातिकर्मचतुष्टयसद्भावात् परमप्पउ परमात्मा घातिकर्मचतुष्टयाभावप्रादुर्भावके वलज्ञानाद्यनंतगुणव्यक्तिविराजमानो हवइ भवतीति गाथार्थः ॥६४॥६५॥ ननु केन प्रकारेणास्य मनःप्रसरस्य निवारण भवतीति प्रश्न प्रत्युत्तरमाह; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy