SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ८२ आराधनासारः जहं जहं विसएसु रई पसमइ पुरिसस्स णाणमासिज्ज । तह तहं मणस्स पसरो मज्जइ आलंबणारहिओ॥६६॥ यथा यथा विषयेषु रतिः प्रशमति पुरुषस्य ज्ञानमाश्रित्य । तथा तथा मनसः प्रसरो भज्यते आलंबनारहितः ॥ ६६ ॥ जह जह यथा यथा विसपसु विषयेषु इंद्रियार्थेषु पुरिसस्स पुरुषस्य जीवस्य रई रतिः रागः पसमइ प्रशमति उपशमति उपशमतां गच्छति । किंकृत्वा । णाणमासिज्ज ज्ञानमाश्रित्य पूर्व तावदस्य जीवस्य रतिरनादिकालसंबंधवशात् परविषयाधारा इदानीं तु कालादिलब्धिं समवाप्य स्वसंवेदनज्ञानेनाकृष्टा सती ज्ञानमाश्रयतीति तात्पर्येण पूर्वार्धगाथार्थः। तह तह तथा तथा मणस्स मनसः चित्तस्य पसरो प्रसरो विस्तारः आलंबनारहिओ आलंबनारहितः सन् रत्याश्रयमुक्तः सन् भज्जइ भज्यते विनश्यति अस्य मनःप्रसरस्य रतिरेवाश्रयः रतिस्तु विषयाश्रयं परित्यज्य ज्ञानाश्रयणी जाता यत्रैव रतिस्तत्रैव मनःप्रसर इति श्रुतिः । अतः मनःप्रसरोपि ज्ञानाश्रयी भवतीत्यायातं मनोप्यात्मानं ज्ञानलीनं करोतीति तात्पर्यार्थः॥६६॥ अमुमेवार्थ पुनरपि दृढीकरोति;विसयालंबणरहिओ णाणसहावेण भाविओ संतो। कीलइ अप्पसहावे तक्काले मोक्खसुक्खे सो ॥ ६७ ॥ विषयालंबनरहितं ज्ञानस्वभावेन भावित सत् । क्रीडति आत्मस्वभावे तत्काले मोक्षसौख्ये तत् ॥ ६७ ॥ .. अब प्राकृतलक्षणे पुन्नपुंसकलिंगयोः कुत्रचिद्रूपभेदो नास्ति तथा च द्विवचनबहुवचनभेदो नास्तीत्यादि सर्वत्र यथासंभवं विचारणीयं । विसयालंबणरहिओ विषयालंबनरहितं अनादिकालसंसेव्यमानविषयाधारवर्जित तत् मनः णाणसहावेण ज्ञानस्वभावेन ज्ञानवासनया भाविओ. संतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy