________________
११२
थक्के मणसंकप्पे रुद्धे अक्खाण विसयवावारे । पयडइ बंभसरूवं अप्पाझाणेण जोईणं ॥
पुनः किं कुर्वन् क्षपकः । अगणंतो तणुदुक्खं तनौ शरीरे यानि दुःखानि ज्वरावेशादीनि तानि अगणयन् । अनया भावनया निराकुर्वन् । तां भावनामाह
A
आराधनासारः
न मे मृत्युः कुतो भीतिर्न मे व्याधिः कुतो व्यथा ।
नाहं बालो न वृद्धोऽहं युवा चैतानि पुद्गले ॥
ततो रागादीन् विभावान् मुक्त्वा अनंतज्ञानस्वभावे स्वात्मनि निरतः क्षपकः सुखी भवतीति भावार्थ: ॥ ९९ ॥
यावत्तपोऽग्निना न तप्तं चेतनं कार्तस्वरं तावत्कर्मकालिम्ना न मुच्यत इत्याह; — जाव ण तवग्गितत्तं सदेहमूसाईं णाणपवणेण । तावण चत्तकलंकं जीवसुवण्णं खु णिव्वडइ ॥ १०० ॥ यावन्न तपोनितप्तं स्वदेहमूषायां ज्ञानपवनेन ।
तावन्न त्यक्तकलंकं जीवसुवर्णे हि निर्व्यक्ती भवति ॥ १०० ॥
ताव ण णिव्वडर तावत्कालं तावतं कालं न निर्व्यक्तीभवति न कर्मकलंकात् पृथग्भूतं भवति इत्यर्थः । किं तत् । जीवसुवण्णं दैदीप्यमानगुणत्वात् जीवसुवर्ण चिदानंदकार्तस्वरं । कथं । खु स्फुटं जाम ण तवग्गितत्तं यावत्कालं न तपोनितप्तं बाह्याभ्यंतररूपं तप एवं दुस्सहत्वादनिस्तपोनिस्तेन तप्तं मुहुर्मुहुरावर्तितं । कस्यामधिकरणभूतायां क्षिप्तं जीवसुवर्णे । सदेहमूसाए स्वदेहमूषायां स्वस्यात्मनो देहः स्वदेहः स्वदेह एव मूषा स्वदेहमूषा तस्यां स्वदेहमूषायां । केन करणभूतेन । णाणपवणेण ज्ञानपवनेन ज्ञानं भेदज्ञानं तदेव पवनो वायुः तेन ज्ञानपवनेन करणभूतेन । कथंभूतं जीवसुवर्ण चत्तकलंकं त्यक्तं कलंकं कर्मरूपं येन तत् त्यक्तकलंकं ज्ञानपवनेन भेदज्ञानपवनेन वर्धमानतेजसा तपोजातवेदसा तप्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org