________________
टीकासहितः।
११३
देहमूषाया स्थितं जीवसुवर्ण कर्मकालिमानमपहाय विशुद्धो भवतीत्यर्थः । यदुक्तम्
" तपोभिस्ताडिता एव जीवाः शिवसुखस्पृशः । मुशलैः खलु सिद्ध्यंति तंडुलास्ताड़िता भृशम् ॥ तपः सर्वाक्षसारंगवशीकरणवागुरा ।
कषायतापमृद्धीका कर्मजीर्णहरीतकी " ॥ १०० ॥ दुःखं देहस्य अहं च देहात्मको न भवामीति भावनया दुःख सहस्वेति निर्दिशति;-- णाहं देहो ण मणो ण तेण मे अत्थि इत्थ दुक्खाई। समभावणाइ जुत्तो विसहसु दुक्खं अहो खवय ॥१०॥
नाहं देहो न मनो न तेन मे अस्ति अत्र दुःखानि ।
समभावनया युक्तः विसहस्व दुःखमहो क्षपक ॥ १०१ ॥ विसहसु विशेषेण सहस्व । किं । दुक्खं दुःख आधिव्याधिसमुद्भवं । किं विशिष्टः सन् सहस्व । समभावणाइ जुत्तो युक्तः संयुक्तः समभावनया । तामेव समभावनामाह । णाहं देहो अहं शुद्धद्रव्यार्थिकनयापेक्षया विशुद्धचैतन्यात्मकः देहः काय औदारिकादिरूपो न भवामि । तथाहं शुद्धनिश्चयनयेन निर्विकल्पस्वभावरूपो मनः संकल्परूपं चित्तं न भवामि यतो मनसः कायस्याप्यगोचरः । यदुक्तम्न विकल्परहितं चिदात्मकं वस्तु जातु मनसोऽपि गोचरः । कर्मजाश्रितविकल्परूपिणः का कथा तु वचसो जडात्मनः॥ तथाऽहमात्मा ईदृग्विधः-..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org