________________
११४
आराधनासार'
स्वसंवेदन सुव्यक्तस्तनुमात्रो निरत्ययः ।
अत्यंत सौख्यवानात्मा लोकालोकविलोकनः ॥
तेनैव प्रकारेण इत्थं एतस्मिन् काये व्यवहारनयापेक्षया वसतोपि मम निर्मलनिष्कलंकस्वभावस्य दुःखानि जन्मजरामरणरोगरूपाणि न संति इति समभावनापरिणतः क्षपको व्याधिप्रतीकारचिंतनरूपेण आर्तध्यानेन न बाध्यत इति भावार्थः ॥ १०१ ॥
शरीरे रागाद्युद्भवो न पुनर्मम अनंत सुख संपत्स्वभावस्य इति भावनापरः क्षपकोस्तीत्यादिशति;णय अत्थि कोवि वाहीण य मरणं अत्थि मे विसुद्धस्स । वाही मरणं काए तम्हा दुक्खं ण मे अत्थि ।। १०२ ॥ न चास्ति कापि व्याधिर्न च मरणं अस्ति मे विशुद्धस्य । व्याधिर्मरणं काये तस्मात् दुःखं न मे अस्ति ॥ १०२ ॥
णय अस्थि कवि वाही निरंजनशुद्धात्मसम्यक् श्रद्धानज्ञानानुष्ठानरूपनिश्चयरत्नत्रयात्मकस्य मम कापि व्याधिर्नास्ति तथा मम नित्यानंदैकस्वभावस्य ण य मरणं प्राणत्यागरूपं मरणं मृत्युरपि नास्ति । कथंभूतस्य मम । विशुद्धस्य रागद्वेषमोहाद्युपाधिरहितस्य अथवा वातपित्तश्लेष्मादिदोषरहितस्य । यदि व्याधिमरणमपि परमात्मनि नास्ति तर्हि क्वास्ति । वाही मरणं व्याधिर्मरणं च काये तुम्हा दुःखं ण मे अत्थि तस्मात्कारणात् दुःखादेरभावात् मम अविनश्वरपरमानंद मेदुरात्मनः दुःखं नास्ति । तदुक्तं
" रुग्जरादिविकृतिर्न मेंजसा सा तनोरहमितः सदा पृथक् । मेलनेपि सति खे विकारिता जायते न जलदैर्विकारिभिः ” ॥ १०२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org