________________
४०
आराधनासारः
यावन्न ग्रंथं त्यजति तावन्न चित्तस्य मलिनिमानं मुंचति । द्विविधपरिग्रहत्यागे निर्मलचित्तो भवति क्षपकः ॥ ३२ ॥ ___ण छंडइ न त्यजति । कोसौ । स पूर्वोक्त आराधकः । कथं । जाव यावत् यावत्कालं । कं । गंथं ग्रंथं परिग्रहं ताम ण मुयइ तावत्काल न मुंचति । कं। मलिणिमा मलिमिमान मलिनत्वं । कस्यं । चित्तस्स चित्तस्य यावत्कालपारमाणं ग्रंथं न त्यजति तावत्कालं चित्तमलिनतां न मुंचति इत्यर्थः । द्विविधपरिग्रहत्यागी कथंभूतो भवतीत्याह । हवइ भवति। कोसौ । खवओ क्षपकः कर्मक्षपणशीलः । कथंभूतो भवति । णिम्मलचित्तो निर्मलचित्तः रागद्वेषादिजनितसकलकालुष्यरहितचेताः । किं कृते सति । दुविहपरिग्गहचाए द्विविधपरिग्रहत्यागे बाह्याभ्यंतरभेदाद् द्विविधपरिग्रहत्यागे कृते सति यः कश्चिदात्मानमाराधयितुकामः स पूर्व चित्तशुद्ध्यै चित्तकालुष्यहेतून् परिग्रहान् ममैते तेभ्यः समाधानं जायते इतीमां शंकामपि विहाय परमात्मानं भावयेति तात्पर्यम् ॥ ३२ ॥ - ननु सामान्यनिग्रंथलक्षणमवादि भवद्भिरिदानी परमार्थनिग्रंथस्वरूपं श्रोतुकामोऽहं भगवन् श्रावयेति वदंतं प्रत्याह;देहो बाहिरगंथो अण्णो अक्खाण विसयअहिलासो। तसिं चाए खवओ परमत्थे हवइ णिग्गंथो॥ ३३॥ .. देहो बाह्यग्रंथो अन्यो अक्षाणां विषयाभिलाषः ।
तयोस्त्यागे क्षपकः परमार्थेन भवति निग्रंथः ॥ ३३ ॥ हवइ भवति । कोसौ । खवओ क्षपकः । कथंभूतो भवति । णिग्गंथो निग्रंथः।
“एको मे शाश्वतश्चात्मा ज्ञानदर्शनलक्षणः । शेषा बहिर्भवा भावाः सर्वे संयोगलक्षणाः ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org