________________
टीकासहितः।
इति श्लोकार्थाभिप्रायप्रवर्तनतया केवलं निजात्मद्रव्योपादानत्वासर्वसंगसंन्यासी। केन । परमत्थे परमार्थेन निश्चयेन । किं कृते सति । चाए त्यागे कृते सति । कयोः । तेसिं तयोः । तयोरिति तौ द्वौ प्रत्येक कथयति । भवति । कोसौ । बाहिरगंथो बाह्यग्रंथः बाह्यपरिग्रहः । कः सः। देहः शरीरं भवति च । कोसौ । अण्णो अन्यः बाह्यादन्यत्वादन्यः अभ्यंतरग्रंथ इत्यर्थः । स कः । विसयअहिलासो विषयाभिलाषः विषयवांछा । केषां । अक्खाण अक्षाणां इंद्रियाणां परमार्थेन देह एव बाह्यग्रंथः सर्वैः प्रत्यक्षत्वात् परमार्थेनेंद्रियाणां विषयाभिलाष अभ्यंतरग्रंथः अकायवाग्व्यापारे परेंद्रियैरप्रत्यक्षत्वात् इत्युक्तलक्षणयोबाह्याभ्यंतरग्रंथयोस्त्यागे कृते सति परमार्थनिर्ग्रथो भवन स्वस्वरूपाराधको भवतीत्याभिप्रायः॥ ३३ ॥ एवं गाथाचतुष्टयेन संगत्यागो व्याख्यातः,अधुना क्रमायातायाः कषायसल्लेखनाया व्याख्यानं गाथाषट्रेन कृत्वा आचार्यों निरूपयतीति समुदायपातनिका।
ननु कषायसल्लेखनाकारी क्षपको यः स कथंभूतो भवतीति वदंतं प्रत्याह;इंदियमयं सरीरं णियणियविसएसु तेसु गमणिच्छा । ताणुवरि हयमोहो मंदकसाई हवइ खवओ ॥ ३४ ॥
इंद्रियमयं शरीरं निजनिजविषयेषु तेषु गमनेच्छम् ।
तेषामुपरि हतमोहो मंदकषायो भवति क्षपकः ॥ ३४ ॥ हवइ भवति । कोसौ । खवओ क्षपकः । किं भवति । मंदकसाई मंदकषायी । किं विशिष्टः । क्षपकः । हतमोहो हतमोहः हतो निराकृतो मोहो मूछी ममत्वपरिणामो येन स हतमोहः । क । उवरि उपरि । केषां तेषां स्वस्वविषयाणां । तेषामुपरीति किं तदेवस्पष्टमाह । भवति तत् शरीरं। किं भवति । गमणिच्छा गमनेच्छं गमने इच्छा यस्य तत् गमनेच्छं जिगमिषु । क । णियणियविसएसु निजनिजविषयेषु स्वकीयस्वकीयस्पर्शरसगंधधर्णशब्दलक्षणेषु । विषयेषु इत्युक्ते शरीरादावतिव्याप्तिः तन्नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org