________________
आराधनासारः
-
रासार्थ इंदियमयं स्पर्शनादिलक्षणैरािंद्रियैर्निवतं इंद्रियमयं । तथा च मंदकषायी शब्दोत्र संज्ञात्वेन कल्पितः अन्यथा मंदाश्चते कषायाश्चेति कर्मधारयसमासे कृते मत्यर्थीयसमासो न घटते “ न कर्मधारयान्मत्वर्थीय इति निषेधसूत्रदर्शनात् । तस्मात्कषायाणां तीवोदयाभावादनंतानुबंधिचतुष्टयस्य क्षयात् क्षयोपशमादा मंदकषायत्व संकेतितं । मंदकषायो अस्यास्तीतिमंदकषायी । अथवा मंदाः कषाया यस्मिन् कर्मणि तत् मंदकषायं तदस्यास्तीति । य एव कषायान मंदान् करोति स एव इंद्रियाणामुपरि हतमोहो भवति । एवं ज्ञात्वा कषायान् जित्वा शरीरेंद्रियविषयेषु हतमोहो भूत्वा परमात्मानमाराधयेत्यर्थः ॥ ३४ ॥
ननु अजितकषायस्य बाह्ययोगेनैव शरीरस्यापि संन्यासं कुर्वाणस्य मुनेः या सल्लेखना सा किं विफला चेति वदंतं प्रत्याह;सल्लेहणा सरीरे बाहिरजोएहि जा कया मुणिणा। सयलावि साणिरत्था जाम कसाए ण सल्लिहदि ॥३५॥
सल्लेखना शरीरे बाह्ययोगैः या कृता मुनिना । सकलापि सा निरर्था यावत्कषायान्न सल्लिखति।। ३५ ॥
भवतीत्यध्याहार्य व्याख्यायते। भवति । कासौ । सा सल्लेहणा सा सल्लेखना । किं भवति । णिरत्था निर्गतः सकलक्षयमोक्षलक्षणोर्थः प्रयोजनो यस्याः सा निरर्था निष्फला । कथंभूतापि । सयलावि सकलापि समस्तापि सेति का । या । का या । या कृता । केन । मुणिणा मुनिना महात्मना । कैः कारण भूतैः । बाहिरजोएहिं बाह्ययोगैः अशेषकर्मधर्मजनितसंतापविनाशहेतुभूतसाम्यविराजमानशुद्धपरमात्मसंलीनमनोयोगविलक्षणैः शीतातपवातोर्ध्वसंस्थानादेशदानादिकायवाग्व्यापारनिरोधलक्षणैर्बाह्ययोगैः । क । शरीरे । कियत्कालं निरर्था स्यादित्याह । जाव ण सल्लिहइ यावन्न सल्लिखति यावन्न परित्यजति । कान् । कसाए कषायान् कति विनाशयंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org