________________
टीकासाहितः।
mwww
चारित्रपरिणाममिति कषायास्तान मुनिना बाह्ययोगेन सा सल्लेखना कृता अंतःकषायपरिणामसद्भावात् सकला विफला सा भवतीति मत्वा निष्कषायत्वं प्रपद्य परमात्मानमाराधयतेति तात्पर्यम् ॥ ३५॥ __ ननु भगवन् कषायेषु का शक्तिः एते जगतः किं कुर्वतीति पृच्छतं प्रत्याह;अस्थि कसाया बलिया सुदुज्जया जहि तिहुअणं सयलं। भमइ भमाडिज्जंतो चउगइभवसायरे भीमे ॥ ३६॥
अस्ति कषाया बलिनः सुदुर्जया यैत्रिभुवनं सकलम् । भ्रमति भ्राम्यमानं चतुर्गतिभवसागरे भीमे ॥ ३६ ॥ अस्ति संत्यर्थे वर्तते । अत्थि संति । के। कसाया कषायाः । कथंभूताः । बलिया बलिनः अनादिकर्मबंधवशादनंतशक्तेरात्मनः स्ववशीकरणत्वात् वीर्यवंत इत्यर्थः । पुनः कथंभूताः। सुदुर्जया चतुर्थगुणस्थानमारभ्योपशांतकषा- . यगुणस्थानावधिवर्तमानावस्थारणभूमौ मुनिमल्लैश्चिरस्वेच्छाचरणाधीनत्वानिजविनाशशंकामगणयंतं प्रतिसमयं दृष्टश्रुतानुभूतपरपदार्थे प्रवर्तमानं परिणाम संकोच्य पुनः पुनः स्वस्वरूपस्थापनलक्षणेन दुःखेन जेतुं शक्या दुर्जयाः । तत्क्षणमनोविक्षेपकारित्वात् सुष्टु अतिशयेन दुर्जयाः सुदुर्जयाः। नन्वादिम-. गुणस्थानत्रयं तत्र कषायसद्भावेपि किमर्थं परित्यक्तं श्रीमद्भिरितिचेत् । युक्तमुक्तं । परं तबादिमगुणस्थानत्रयेपि कषायान् जेतुमनलं त्रप्लवो जीवाः तदृढतराधारस्वरूपप्ररूपणनिपुणमिथ्यात्वैकातपत्रसाम्राज्यात् तत्पक्षक्षपणप्रतिपक्षतादक्षसम्यक्त्वदृढतरप्रौढेरभावाच्च । जेहिं यैः कषायैः भमाडिज्जंतो भ्राम्यमानं सन् तिहुयणं त्रिभुवन विश्वं सयलं समस्तं भमइ भ्रमति पर्यटति । क । चउगइभवसागरे चतुर्गतिभवसागरे देवनरतिर्यग्नरकगत्युपलक्षितसंसारसमुद्रे । कथंभूते। भीमे रौद्रे विविधकर्मग्राहजनितदुःखानु-.. भवनत्वात् इति मत्त्वा क्षपकेण शुद्धपरमात्मानं सिषेविषुणा दुर्जयाः कषाया एव पूर्व तिरस्करणीया इति तात्पर्यार्थः ॥ ३६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org