________________
टीकासहितः ।
च्छपहुदिगंथाणं अभ्यंतरमिथ्यात्वप्रभृतिग्रंथानां अभ्यंतरेऽशुद्धनिश्वयनयं परित्यज्य शुद्ध निश्चयनयप्रवर्तित आत्मनि मिथ्यात्वप्रभृतिग्रंथा मिथ्यात्ववेदरागहास्यादिषड्रदोषचतुष्कषायलक्षणाश्चतुर्दश परिग्रहास्तेषां । उक्तं चमिच्छत्तवयराया हासादीया य तह य छद्दोसा | चत्तारि तह कसाया अब्भंतर चउदसा गंथा बाह्याभ्यंतरपरिग्रहं त्यक्त्वा निरालंबमात्मानमाराधय इति तात्पर्यम् ॥ ३० ॥ नन्वेतेन ग्रंथपरित्यागेनात्मनः किं फलं भवतीति वदंतं प्रत्याह; संगचाएण फुडं जीवो परिणवइ उवसमो परमो । उवसमगओ हु जीवो अप्पसरूवे थिरो हवइ ॥ ३१ ॥ संगत्यागेन स्फुटं जीवः परिणमति उपशमं परमम् । उपशमगतस्तु जीव आत्मस्वरूपे स्थिरो भवति ॥ ३१ ॥
ܕܪ
Jain Education International
11
परिणमइ परिणमति प्राप्नोति । कोसौ । जवो जीवः आत्मा । के । उवसमो उपशमं रागादि परिहारलक्षणं । कथंभूतं । परमो परमं उत्कृष्टकोटिप्राप्तं । केन कारणेन । संगञ्च्चाएण संगत्यागेन बाह्याभ्यंतर संगपरित्यागेन फुडं स्फुटं निश्चितं । नंनु उपशमं प्राप्त आत्मा कथंभूतो भवतीति प्रश्नोत्तरमाह । हवइ भवति । कोसौ । जीवः । कथंभूतस्तु । उवसमगओ हु. उपशमं गतस्तु उपशमगतोयं जीवः । कथंभूतो भवति । थिरो स्थिरः प्रचालयितुमशक्यः । क्क | अप्पसरूवे स्वकीये परमात्मस्वरूपे यत उपशमगतोयमात्मस्वरूपे स्थिरभिवति । उपशमस्तु संगत्यागेन जन्यते तत उपशमहेतुभूतं संगत्यागं विधाय परमात्मानमाराधयतेति तात्पर्यार्थः ॥ ३१ ॥
ननु ग्रंथवानप्यात्माराधको घटते चित्तनिर्मलीकरणत्वात् किं ग्रंथपरित्यागविकल्पेनेत्याशंक्याह;जाम ण गंथं छंडइ तामण चित्तस्स मलिणिमा मुचइ । दुविहपरिग्गहचाए णिम्मलचित्तो हवइ खवओ ॥ ३२ ॥
For Private & Personal Use Only
३९.
www.jainelibrary.org