________________
आराधनासारः
विण्णासो विन्यासः विन्यसनं स्थापनमित्यर्थः । क विन्यासः । ससहावे स्वस्वभावे समस्तदेहादिविभावपरिणामविलक्षणसहजशुद्धचिदानंदसंदोहनिर्भरे स्वस्वरूपे । किं विशिष्टस्य श्रमणस्य । विकल्परहितस्य शरीरकलत्रपुत्रादिजनितसमस्तविकल्पवर्जितस्य विकल्परहितश्रमणस्य यस्य स्वस्वभावे विन्यासः स निश्चयनयेन निश्चयवादिभिः संन्यासार्ह उक्त इत्यन्वर्थः ॥ २९ ॥ ..
इत्युक्तलक्षणार्हो भूत्वा पुमान् अन्यत् किं कृत्वा निरालंबमात्मानं भावयति इति पृष्टे खित्ता इत्याह;खित्ताइबाहिराणं अभितर मिच्छ पहुदिगंथाणं । चाए काऊण पुणो भावह अप्पा णिरालंबो ॥३०॥
क्षेत्रादिबाह्यानामभ्यंतरं मिथ्यात्वप्रभृतिग्रंथानाम् ।
त्यागं कृत्वा पुनर्भावयतात्मानं निरालंबम् ॥ ३०॥ भावह भावयत आराधयंत । कथं । पुनः। कं । अप्पा आत्मानं । किं विशिष्टं । णिरालंबो निरालंब केवलस्वस्वरूपावलंबनत्वात्सकलपरद्रव्यचिंताजनितविकल्पपरित्यागेन निर्गतो विनष्टः पदस्थपिंडस्थरूपस्थरूपातीतादिरूपोप्यालंबो यस्मात् स निरालंबः तं निरालंबं । किं कृत्वा । चायं काऊण त्यागं कृत्वा मुक्तस्य वस्तुनच्छर्दितवत्पुनरादानाभावलक्षणस्त्यागः तं । केषां । खित्ताइबाहिराणं क्षेत्रादिबाह्यानां क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यभांडबाह्यपरिग्रहाणां । उक्तं च
“ सयणासणघरछित्तं सुवण्णधणधण्णकुप्पभंडाई । दुपयचउप्पय जाणसु एदे दस बाहिरा गंथा" ॥
ननु खित्ताई बाहिराणमित्युक्ते ग्रंथशब्दः कुतो लभ्यते । अग्रे प्रयुक्तत्वेनोपलक्षणत्वात् । न केवलं क्षेत्रादिबाह्यग्रंथानां त्यागं कृत्वा । अभंतरमि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org