SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ टीकासहितः। ध्यावस्थायां सत्यां स संन्यासार्हो भवतु इत्यग्रे वक्ष्यतीति तात्पर्य । न केवलं देहो मृत्योर्भयात् कंपते । जाम ण वियलइ यावन्न विगलति । कोसौ। उज्जमो उद्यमः कार्यारंभाय समुत्साहलक्षणः। केषु। संजमतवणाणझाणजोएसु संयमतपोज्ञानध्यानयोगेषु । तत्र संयमः इंद्रियप्राणादिसंयमनलक्षणः, तपः अनशनावमौदर्यादिलक्षणैर्बहुप्रकारः, ज्ञानं श्रुतज्ञानं, ध्यानं धर्मशुक्लरूपं, योगः यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिलक्षणः । संयमश्च तपश्च ज्ञानं च ध्यानं च योगश्च संयमतपोज्ञानध्यानयोगास्तेषु । वृद्धावस्थायां हि संयमादिविषये उद्यमः स समयं समय विगलति एव । यथा यौवनावस्थायां समुत्साहस्तेषु समुदयति तथा न भवतीति । यावद्वृद्धावस्था न समायाति तावत्स पुरुषः उत्तमस्थानस्याहः संपद्यते इति तात्पर्य । उक्तं च" यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा । यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् संदीप्ते भवने च कूपखननं प्रत्युद्यमः कीदृशः" ॥२५।२६।२७।२८॥ व्यवहाराहलक्षणं प्रपंच्य इदानीं निश्चयाहलक्षणं कथयति;सो सण्णासे उत्तो णिच्छयवाईहिं णिच्छयणएण । ससहावे विण्णासो सवणस्स वियप्परहियस्स ॥ २९ ॥ स संन्यासे उक्तः निश्चयवादिभिर्निश्चयनयेन । स्वस्वभावे विन्यासः श्रमणस्य विकल्परहितस्य ॥ २९ ॥ उत्तो उक्तः कथितः । कैः। णिच्छयवाईहिं निश्चयवादिभिः । केन कृत्वा । णिच्छयणएण निश्चयनयेन । कोसौ । अर्हः अत्रास्याध्याहारः अस्यैवाधिकारप्रतिपादनत्वात् । क । संन्यासे समाधिलक्षणे । कः । सः । स इति कः । यस्य सवणस्स श्रमणस्य आचार्यस्य अस्ति । कोसौ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy