________________
टीकासहितः।
लक्षणमायुरिति आयुरूप जलं आयुर्जलं । जलत्वेनायुर्निर्देशस्य किं प्रयोजनं। यथा सच्छिद्रकरांजलौ प्रक्षिप्तं जलं समयादिसहकारित्वेन सकलं परिगलति तथा आयुरपि समयघटिकादिवत् पक्षमासादिभिः कृत्वा समस्तं परिगलति । इदमत्र तात्पर्य । न केवलं आयुर्जलं यावन्न परिगलति । जावत्थि यावदस्ति च । कोसौ । आहारासणणिद्दाविजओ आहारासननिद्राविजयः आहारश्च आसनं च निद्रा च आहारासननिद्रास्तासामाहारासननिद्राणां विजयः आहारासननिद्राविजयः । आहारासननिद्राणां किं लक्षणं इति चेत् । निर्विकारपरमाह्लादकारिसहजस्वभावसमुद्भवसर्वकालसंतपणहेतुभूतस्वसंवेदनज्ञानानंदामृतरसप्राग्भारनिर्भरपरमाहारविलक्षणो निजोपार्जितासवेदनीयकर्मोदयेन तीवबुभुक्षावशाद्व्यवहारनयाधीनेनात्मना यदशनपानादिकमाद्रियते तदाहारः । निश्चयेनात्मनः अनन्येवस्थानं यत् तदासनमित्युच्यते । लोकव्यवहारेण तदवस्थानसाधनांगत्वेन यमनियमाद्यष्टांगेषु मध्ये शरीरालस्यग्लानिहानाय नानाविधतपश्चरणभारनिर्वाहक्षमं भवितुं तत्पाटवोत्पादनाय यनिर्दिष्टं पर्यंकापर्यंकबीरवज्रस्वस्तिकपद्मकादिलक्षणमासनमित्युच्यते। एतेषां प्रत्येकं लक्षणमाह
" स्याज्जंघयोरधोभागे पादोपरि कृते सति । पर्यको नाभिगोत्तानदक्षिणोत्तरपाणिकः " अयमेवैकं जंघाया अधोभागे. पादोपरि कृतेऽर्धपर्यकः । " वामोंघ्रिदक्षिणोरूज़ वामोरूपरि दक्षिणः । क्रियते यत्र तद्वीरोचितं वीरासनं स्मृतं ॥" “ पृष्टे यत्राकृतीभूतदोभ्या वीरासने सति । गृह्णीयात् पादयोर्यत्रांगुष्ठौ वज्रासनं हि तत् ॥" " जंघाया मध्यभागेषु संश्लेषो यत्र जंघया।
पद्मासनमिति प्रोक्तं तदासनविचक्षणैः ॥" इत्यादि । निद्रालक्षणं किं । सर्वदोन्निद्रकेवलज्ञानदर्शननेत्रपरमात्मप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org