________________
आराधनासारः
जराव्याघ्री न चंपते यावन्न विकलानि भवंति अक्षाणि । बुद्धिर्यावन्न नश्यति आयुर्जलं यावन्न परिगलति ॥ २५ ॥ आहारासननिद्राविजयो यावदस्ति आत्मनो नूनम् । आत्मानमात्मना च तरति च निर्यापको यावत् ॥ २६ ॥ यावत् न शिथिलायंते अंगोपांगानि संधिबंधाश्च । यावन्न देहः कंपते मृत्योर्भयेन भीत इव ॥ २७ ॥ यावदुद्यमो न विगलति संयमतपोज्ञानध्यानयोगेषु ।
तावदहः स पुरुषः उत्तमस्थानस्य संभवति ॥ २८ ॥ कलापकं। संहवइ संभवति संपद्यते । कोसौ । स पूर्वोक्तलक्षणः पुरिसो पुरुषः । कथंभूतः । अरिहो अर्हः । कस्य । उत्तमस्थानस्य बाह्याभ्यंतरसंगसंन्यासलक्षणविशेषस्य । कथं । ता तावत् । तावदिति कियत्कालं । जाव यावत् यावत्काले ण चंपेइ न चंपते नाक्रमति । कासौ । जरवग्घिणी यौवनद्विपदर्पदलनत्वात् जराव्याघ्री । न केवलं जराव्याघी यावन्नाकामति । जाम ण हुंति यावत् च न भवंति कानि । अक्खाइं अक्षाणि स्पर्शरसगंधवर्णशब्दग्रहणदक्षाणि इंद्रियाणि । किंविशिष्टानि यावच्च न भवंति । वियलाई विकलानि स्वकीयस्वकीयविषयसौष्ठवास्पष्टकारीणि । न केवलं विकलानींद्रियाणि यावन्न भवति जाम यावच्च ण णासइ न नश्यति । कासौ । बुद्धिः । नश्यतीति कोर्थः । अवस्थाविशेषेण सा इंद्रियमनोविकलतया हेयोपादेयपदार्थपरिज्ञानशून्यत्वेनात्मीयं स्वरूपं मुक्त्वा विपर्यस्तरूपमादाय अदृश्या भवति । न केवलं यावद्भुद्धिर्न नश्यति । जाम यावच्च ण परिगलइ न परिगलति । किं तत् । आउजलं आयुर्जलं निजोपार्जितकर्मबंधसामर्थ्येन संवत्सरायनर्तुमासपक्षदिवसघटिकादिविशेषैर्यावत्परिमाणं भवस्थित्या एकस्मिन् देहे प्राण धारण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org