________________
आराधनासारः
रेन्द्रकिंकरीभूतविषयकषायलंटाकभीतिनिराकरणाय समाश्रितसकलसिद्धांतरहस्यभूतनिश्चयव्यवहारभेदभिन्नचतुर्विधाराधनाग्रंथसंग्रथितपरमशब्दब्रह्मप्रयलेन अनेकांतमरुन्मार्गस्तयमानेन श्रेयोमार्गसंसिद्धिशिष्टाचारप्रपालननास्तिक्यपरिहारार्थनिर्विघ्नपरिसमाप्तिफलचतुष्टयाभिलाषुकेण परमसम्यक्त्वाद्यटप्रसिद्धविमलतरगुणसमृद्धानां सिद्धानां महावीरविशेषणयुक्तानां द्रव्यभावभेदभिन्नं द्विविधं नमस्कारं कुर्वाणन आराधनासारं वक्ष्येहमिति प्रतिज्ञां विरचयता च श्रीमत्परमभट्टारकश्रीदेवसेनाचार्येण स्तोत्रामदं विधीयते;-- विमलयरगुणसमिद्धं सिद्धं सुरसेणवंदियं सिरसा। णमिऊण महावीरं वोच्छं आराहणासारं ॥१॥ विमलतरगुणसमृद्धं सिद्धं सुरसेनवंदितं शिरसा ।
नत्वा महावीरं वक्ष्ये आराधनासारम् ॥ १ ॥ वक्ष्ये । कोसौ। अहं देवसेनाचार्यः । कं । आराहणासारं आराधनासारं मुमुक्षुभिराराध्यते या सा आराधना आराधनायाः सारः आराधनासारः तं आराधनासारं सम्यग्दर्शनादिचतुष्टयरूपेण सारीभूतं । किं कृत्वा । णमिऊण नत्वा नमस्कृत्य । कं। सिद्धं सिद्धं केवलज्ञानाद्यनंतगुणप्रादुर्भावलक्षणं परमात्मानं । किंविशिष्टं । विमलयरगुणसामद्धं निर्मलतरशुद्धचैतन्यगुणसंपूर्ण । पुनः किंविशिष्टं । सुरसेणवंदियं सुरसेनवंदितं सौधर्मेन्द्रप्रमुखचतुर्णिकायामरानीकनमस्कृतं । पुनरपि किंविशिष्टं । महावीर अन्येषामप्याराधकपुरुषाणां ध्यानरंणरंगभूमावनादिलग्नकर्माष्टकविपक्षचक्रविनाशनैकसुभटं । केन । सिरसा मस्तकेन । यदि च महावीरमिति विशेष्यपदपक्षं कक्षीकृत्य व्याख्यायते तदा । नत्वा । कं । महावीरं, ई इति चतुर्थस्वररूपमेकाक्षराभिधानं प्रसिद्धं लक्ष्मीनामा ' रा ला इति धातुद्वयं, आदाने ग्रहणे इत्यस्मिन्नर्थे वर्तते । विशिष्टां बाह्यचतुस्त्रिंशदतिशयप्रादुर्भूति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org