________________
श्रीपरमात्मने नमः। श्रीमद्देवसेनाचार्यविरचितः राधनासारः सटीकः ।
सिद्धानाराधनासार--फलेन फलितात्मनः । ध्यात्वा व्याख्यानतीर्थेन स्वस्यात्मानं पुनाम्यहम् ॥१॥ जिनेन्द्रहिमवद्वकपद्मह्रदविनिर्गता । सप्तभंगमयी गंगा मां पुनातु सरस्वती ॥ २ ॥ गुरूणां चरणद्वन्दं महामंत्रोपमं वसन् ।
सदा मद्धृदयांभोजे हयाद्विघ्नपरंपराम् ॥ ३॥ . अथ संसारमहापारावारपारासन्नप्रदेशस्थेन निरुपाधिनिरुपद्रवाविनश्वरसनातनानंतसौख्यसमुदायोपायचिंतनं निमितनिरंतरकालेन सिद्धालयवेलापत्तनं जिगमिषुणा जिनोदितभेदाभेदरत्नत्रयपोतसमारूढन स्वभावोत्थितपरमकरुणारसपूरप्रभावेण भवदुःखाग्निदंदह्यमानानन्यानपि भव्यजीवांस्तद्योग्योपदेशवचनैस्तत्रारोप्य पारं कर्तुकामेन स्वयं कर्णधारायमानेन स्वयमेव सार्थवाहाधिपायमानेन तन्मार्गलग्नशीघ्रतरप्रधावमानमहामोहाभिधानचौरन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org