________________
टीकासहितः ।
कर्मास्रवे त्रुटिते सति विलयं गते सति । कीदृशे आस्रवे । दुविकल्पे द्वौ विकल्पौ भेदौ यस्य स द्विविकल्पः तस्मिन् द्विविकल्पे शुभाशुभे द्रव्यभावरूपे वा । मनःप्रसरे क्षीणे सति कर्मास्रवे च निवर्तिते सति भवभवार्जितं कर्म विगलति केवलज्ञानं चाविर्भवतीति समुच्चयार्थः । तथाहि - यो ध्याता अनंतज्ञानादिचतुष्टयलक्षणकार्य समय सारस्योत्पादकेन विशुद्धतरसमाधिपरिणामपरिणतकारणसमयसारेणांतःकरणमतं नयति स कर्मास्रवशत्रून् हत्वा केवलज्ञानविभूतिभाग्भवति निःसंशयमिति ॥ ७३ ॥
यदि कर्मक्षयस्तवाभिप्रेतस्तदा मनः शून्यं विधेद्दीति शिक्षां प्रयच्छन्नाह ;जइ इच्छाह कम्भखयं सुण्णं धारेहि णियमणो झति । सुण्णीयम्मि चित्ते णूर्ण अप्पा पयासेइ ॥ ७४ ॥ यदीच्छसि कर्मक्षयं शून्यं धारय निजमनो झटिति | शून्यीकृते चित्ते नूनमात्मा प्रकाशयति ॥ ७४ ॥
८७
भो क्षपक जइ इच्छहि यदिचेत् इच्छसि वांछसि अभिलषसि । किं तत् । कम्मक्खयं कर्मणां द्रव्यभावरूपाणां क्षयो विनाशः कर्मक्षयस्तं कर्मक्षयं तदा सुण्णं धारोह शून्यं लाभपूजाभोगकांक्षाविरहितं धारय । किं तत् । नियमणो निजमनः संकल्पविकल्परूपं स्वकीयचित्तं । कथं । झटिति त्वरितं । ततश्च सुण्णीकयम्मि चित्ते शून्यीकृते विषयविमुखीकृते चित्ते मनसि । किं स्यादित्याह । अप्पा पयासेहि आत्मा प्रकाशयति जलंधरपटलविघटनाद्रावरिव प्रकटीभवति । कथं । णूणं नूनं निश्चितं । तथाहि - अयमात्मा सकलविमलकेवलज्ञानमय मूर्तिः रागद्वेषादिदोषोज्झिते मनसि सर्वभावविलये वावभासते । यदुक्तं
“ सर्वभावविलये विभाति यत्सत्समाधिभरनिर्भरात्मनः । चित्स्वरूपमभितः प्रकाशकं शर्मधाम नमताद्भुतं महः " ॥ ७४ ॥ यदि चित्तमुद्वासयसि तदा स्वात्मानं पश्यसीत्यावेदयति ;
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org