SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आराधनासारः उवासहि णियचित्रं वसहि सहावे सुणिम्मले गंतुं। जह तो पिच्छसि अप्पा सण्णाणो केवलो सुद्धो॥७५॥ उद्वासयसि निजचित्तं वससि सद्भावे सुनिर्मले गंतुम् । यदि तदा पश्य स्वात्मानं संज्ञानं केवलं शुद्धम् ॥ ७५ ॥ भो क्षपक उव्वासहि णियचित्तं यदि निजचित्तं स्वकीयांतरंग उदासयसि पंचेंद्रियविषयेषु विमुखतां नयसि उद्वसति कश्चित्तमुद्वसं अन्यः प्रयुक्ते धातोश्च हेताविनीति इन्नंतो वस् धातुरिहावगंतव्यं । तथा भो क्षपक सद्भावे शोभने भावे विशुद्धज्ञानदर्शनोपयोगमये परमात्मनि वससि स्थिति करोषि यदि। किंविशिष्टे सद्भावे । सुनिर्मले शुद्धनिश्चयनयापेक्षयारागद्वेषमोहः मंदादिदोषोज्झिते । किंकर्तुं सद्भावे वसति । गंतु तमेव परमात्मानं सम्यक् परिछेत्तुं । सर्वे गत्या धातवो ज्ञानार्था इति। यद्येवं करोषि तो पिच्छसि. अप्पा तदा आत्मानं चिदात्मकं स्वस्वरूपं पश्यसि अवलोकयसि स्वसंवेदनन स्वात्मानं संवेदयसीत्यर्थः। कथंभूतमात्मानं । सण्णाणं सज्ज्ञानं सत् शोभमानं संशयविमोहविनमवर्जितं ज्ञानं यस्य स तं सज्ज्ञानं । पुनकिंविशिष्टमात्मानं । केवलमसहायं । पुनः कीदृशं । शुद्धं सर्वोपाधिरहितं । यदिचेत् निजचित्तमुद्दासयसि सद्भावे च वससि तदा स्वात्मानं पश्यसीति समुच्चयार्थः। तथाहि । भो क्षपक यदि त्वं संसारशरिभागादिषु पराङ्मुखत्वं गतोसि तर्हि परमब्रह्मोपासनवासनानिष्ठो भव ॥ यदुक्तम् " यदि विषयपिशाची निर्गता देहगेहात् सपदि यदि विशीर्णो मोहनिद्रातिरेकः । यदि युवतिकरके निर्ममत्वं प्रपन्नो झगिति तनु विधेहि ब्रह्मवीथीविहारम् " ॥ ७५ ॥ क्षपकस्य परमात्मसद्भावशून्यत्वे दृषणमाह; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy