________________
टीकासहितः ।
८९
तणुमणवयणे सुण्णो ण य सुण्णो अप्पसुद्धसब्भावे । ससहावे जो सुण्णो हवइ वसो गयणकुसुमणिहो ॥ ७६ ॥ तनुमनोवचने शून्यो न च शून्य आत्मशुद्धसद्भावे । स्वसद्भावे यः शून्यो भवति वशो गगनकुसुमनिभः ॥ ७६ ॥
क्षपको ध्याता सुण्णो शून्यो भवतु । कस्मिन् शून्यो भवतु । तणुमणवयणे तनुः शरीरं मनश्चित्तं वचनं प्रतीतं तनुश्च मनश्च वचनं च तनुमनोवचनं तस्मिन् तनुमनोवचने । इदं शरीरादिकं मदीयमिति परिछिनति । अथवा तनुक्रिया शुशुभरूपा देवार्चनादिका अशुभरूपा प्राणिहननादिका, मनः क्रिया शुभरूपा देवगुरुगुणस्मरणादिका अशुभरूपा वधबंधनचिंतनादिकाः, वचनक्रियाः शुभरूपा देवगुरुस्तुत्यादिकाः अशुभरूपा मिथ्याभाषणादिका इत्येतासु शून्यः । यदुक्तं
आस्तां बहिरुपधि च यस्तनुवचन विकल्पजालमप्यपरम् । कर्मकृतत्वान्मत्तः कुतो विशुद्धस्य मम किंचित् ॥ कर्मणो यथास्वरूपं न तथा तत्कर्म कल्पनाजालम् । तत्रात्ममतिविहीनो मुमुक्षुरात्मा सुखी भवति ॥
तथा ण य सुण्णो अप्पसुद्धसब्मावे न च शून्य आत्मशुद्धसद्भावे आत्मनश्चिदात्मकस्य शुद्धो रागादिमलरहितः सद्भावोस्तिस्वभावः तस्मिन्न आत्मशुद्धसद्भावे न च शून्यो ध्याता । नित्यानंदैकस्वभावं परमात्मतत्त्व तत्र ननु जाग्रदवस्थः इत्यर्थः । यदुक्तम्
अस्पृष्टमबद्धमनन्यमयुतमविशेषमभ्रमोपेतः ।
यः पश्यत्यात्मानं स पुमान् खलु शुद्धनयनिष्ठः ॥
स्वसद्भावे यः शून्यः स कीदृश इत्याह । ससहावे जो सुण्णो स्वसद्भावे टंकोत्कीर्णपरमानंदैकस्वभावे यो ध्याता शून्यो ऽविकल्पः स गगनकुसुमनिभो भवति च, गगनस्य आकाशस्य कुसुमं गगनकुसुमं तन्निभः गगन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org