________________
आराधनासारः
कर्मणां । काभ्यां न निवार्यते । तणुवयणुरोहणोहं तनुवचनरोधनाभ्यां तनुः कायः वचनं वचः तयोर्निरोधने ताभ्यां तनुवचनरोधनाभ्यां दुब्वयणे बहुवयणमिति प्राकृते । अथवा स्वकर्मणामित्यस्य पदस्यायमर्थः । कायेनोपार्जितानि कर्माणि स्वकर्माणि कायकर्माणि वचनेनोपार्जितानि कर्माणि स्वकर्माणि वचनकर्माणि उच्यते । मनोनिरोधेन विना कायनिरोधेन. कायकृतानां कर्मणामास्रवा न निषिध्यंते, वचननिरोधेन वचनकृतानामपि कर्मणामास्रवा न निषिध्यते किंतु सर्वकर्मणामास्रवा एकेनैव मनोनिरोधेने निषिध्यंते तस्मादाह जाम ण णिप्फंदकओ यावन्न निष्पंदीकृतं निश्चलीकृतं । किं तत् । समणो स्वमनः स्वचित्तं द्रव्यभावरूपं । केन । मुणिणा मुनिना महात्मना क्षपकेन । केन निश्चलीकृतं। स्वज्ञानेन स्वसंवेदनज्ञानगुणेन ततो निर्मलचैतन्यस्वभावस्वात्माभिमुखपरिणाममाहात्म्येन दुर्जयमनो जयं कृत्वा कर्मास्रवा निवारयितव्या इति हेतोर्मनोजय एव श्रेयान् ।। ७२॥
मनःप्रसरे निवारिते सति यत्फलं भवति तदावेदयति;खीणे मणसंचारे तुट्टे तह आसवे य दुवियप्पे । गलह पुराणं कम्मं केवलणाणं पयासह ॥७३॥
क्षीणे मनःसंचारे त्रुटिते तथास्रवे च द्विविकल्पे।
गलति पुरातनं कर्म केवलज्ञानं प्रकाशयति ॥ ७३ ॥ गलइ गलति विलीयते क्षयं याति । किंतत् । कम्म कर्म । कीदृशं । पुराणं पुरातनं अनेकभवांतरोपार्जितं । न केवलमनेकभेदभिन्नं कर्म विगलति किंतु केवलणाणं पयासेइ केवलज्ञानं केवलं च तत् ज्ञानं च केवलज्ञानं प्रकाशयति आविर्भवति प्रकटीभवति । कस्मिन् सति । खीणे मण-. संचारे प्रक्षीणे मनःसंचारे संचरणं संचारः मनसः संचारो मनःसंचारस्तस्मिन् मनःसंचारे क्षयं विनाशं गते सति । न केवलं मनःसंचारे क्षीणे सति । तुढे तह आसवे य दुवियप्पे तथा तेनैव प्रकारेण आस्रवे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org