SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ टीकासहितः। परिहरिय रायदोसे परिहृत्य रागद्वेषौ इष्टेषु स्रक्चंदनवनितादिषु प्रीतिः रागः अनिष्टेषु अप्रीतिर्दृषः रागश्च द्वेषश्च रागद्वेषौ परितः सर्वप्रकारेण त्यक्त्वा । न केवलं रागद्वेषौ परिहत्य । सुण्णं काऊण णियमणं सहसा शीघ्रं निजमनः शून्यं च कृत्वा । अत्र मनसः शून्यत्वमेतत् यत् निःशेषविषयविमुखत्वं यच्च चिच्चमत्कारमात्रनिजशुद्धात्मपरिणतत्वं रागद्वेषौ परिहृत्य शून्यं च मनः कृत्वा यावत् क्षपको न तिष्ठति । तावत् किं न स्यादित्याह । ताव ण णिहणेइ कम्माइ तावन्न निहति कर्माणि तावंतं कालं कर्माणि ज्ञानावरणादीनि न निहन्यात् । इति ज्ञात्वा शुद्धात्मस्वरूपं जिज्ञासुना अलोलं मनः कार्यम् । यदुक्तम् रागद्वेषादिकल्लोलैरलोलं यन्मनोजलम् । स पश्यत्यात्मनस्तत्त्वं सतत्त्वं नेतरोजनः ॥ अविक्षिप्तं मनस्तत्त्वं विक्षिप्तं भ्रांतिरात्मनः । धारयेत्तदविक्षिप्तं विक्षिप्तं नाश्रयेत्ततः ॥ ततश्च चेतनाचेतनेषु परद्रव्येषु रागद्वेषौ हित्वा शुभाशुभमनोवचनकायव्यापाररूपयोगत्रयपरिहारपरिणताभेदरत्नत्रयलक्षणज्ञानबलेन शून्य विषयविमुखं च मनः कृत्वा यो वीतरागचारित्राविनाभूतशुद्धात्माभिमुखपरिणामस्तिष्ठति स सकलकर्माणि जयतीति भावार्थः ॥ ७१ ॥ यावच्चिदानंदात्मकपरमब्रह्मोपासनवासनाबलेन मनो निश्चलं न विधीयते तावत् कर्मास्रवा वारयितुं न शक्यते इत्याह;तणुवयणरोहणेहिं रुज्झंति ण आसवा सकम्माणं । जाव ण णिप्फंदकओ समणो मुणिणा सणाणेण ॥७२॥ तनुवचनरोधनाभ्यां रुध्यते न आस्रवाः स्वकर्मणाम् । यावन्न निष्पंदीकृतं स्वमनो मुनिना स्वज्ञानेन ॥ ७२ ॥ रुज्झंति ण न निरुध्यते न निवार्यते ते आस्रवा सकम्माणं स्वकमणां स्वेन आत्मीयेन जीवेन सहैकीभावं गतानां ज्ञानावरणाद्यष्टविध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002535
Book TitleAradhanasaraSatika
Original Sutra AuthorDevsen Acharya
AuthorRatnakirtidev
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1973
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari, Ethics, & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy