________________
८४
आराधनासारः
न्यासमाह । तरुस्स मूले तरोर्मूले वृक्षस्य जटाकंदादिविशेषे छिण्णे छिन्ने निःसंतानीकृते कत्तो पुणु कुतः पुनः पल्लवा हुँति पल्लवा भवंति कुतः पुनरपि पल्लवाः प्ररोहति । यथा मूलाभावे अंकुरपल्लवादीनामभावः तथा मनोव्यापाराभावे इंद्रियाणां विषयगमनाभाव इत्यर्थः ॥ ६९ ॥ मनोव्यापार विनाशफलमुपदर्श्य तन्मात्रव्यापारे विनष्टे उत्पन्ने च विशेषमुपदर्श
यन्नाह ;
――
मणमित्ते बाबारे णडुप्पण्णे य बे गुणा हुँति । पट्टे आसवरोहो उप्पण्णे कम्मबंधो य ॥ ७० ॥ मनोमात्रे व्यापारे नष्टे उत्पन्ने च द्वौ गुणौ भवतः । नष्टे आस्रवरोधः उत्पन्ने कर्मबंधश्च ॥ ७० ॥
ममित्ते मनोमात्रे चित्तमात्रे संकल्पविकल्पलक्षणमात्रे वावारे व्यापारे णडे नष्टे विनष्टे उपण्णे य उत्पन्ने च जातमात्रे च वे गुणा द्दौ गुणौं संवरकर्मबंधलक्षणौ हुंति भवतः । कस्मिन् सति को गुणो भवतीत्याह । णडे नष्टे सति आसवरोहो आस्रवनिरोधः कर्मास्रवरोधो भवति उत्पन्ने सति उत्पन्नमात्रस्य संकल्पस्यानिषेधे सति कम्मबंधो य कर्मबंधश्च प्रकृतिस्थित्यनुभागप्रदेशलक्षणात्मको भवति ॥ ७० ॥
यावत्कालं विषयव्यापारपरिणतमंतःकरणं तावत्कालं कर्माणि हंतुं न शक्तोस्तीत्यावेदयति ;
परिहरिय रायदोसे सुण्णं काऊण णियमणं सहसा । अत्थइ जाव ण कालं ताव ण णिहणेइ कम्माइ ॥ ७१ ॥ परिहृत्य रागद्वेषौ शून्यं कृत्वा निजमनः सहसा |
तिष्ठति यावन्न कालं तावन्न निहंति कर्माणि ॥ ७१ ॥ अत्थइ जाव ण कालं यावत्कालं न तिष्ठति यावतं कालं स्वात्माभिमुखपरिणामत्वेन न वर्तते । कोसौ । क्षपकः । किंकृत्वा न तिष्ठति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org