________________
टीकासहितः।
पुन: किं कृत्वा । छित्तूण य अढकम्मसंखलयं छित्वा । कां । अष्टकर्मशृंखला अष्टकर्माण्येवातिदृढत्वात् शृंखला अष्टकर्मशृंखला तां कष्टकर्मशृंखलां संतः सिद्ध्यंति केवलणाणपहाणा केवलं च तज्ज्ञानं च केवलज्ञानं तेन प्रधानाः संयुक्ताः एवंभूताः संतः केचित्तस्मिन्नेव भवांतरे निश्चयाराधनामहिमकमलालिंगिता मक्तिकांतासुखं निर्विशति ॥ १०७ ॥
आराधनाराधका उद्धृत्यपुण्यप्रकृतयः सर्वार्थसिद्धिगामिनो भवंतीत्याह;आराहिऊण केई चउविहाराहणाई जं सारं । उव्वरियसेसपुण्णा सव्वट्ठणिवासिणो हुंति ॥१०८॥
आराध्य केचित् चतुर्विधाराधनायां यं सारं । उवृत्तशेषपुण्याः सर्वार्थनिवासिनो भवंति ॥ १०८ ॥ हुति भवंति । केई केचित् अनुभृतपुण्यप्रकृतयः । कीदृशा भवंति । सव्वहणिवासिणो सर्वार्थसिद्धौ निवसंतीत्येवंशीलाः सर्वार्थसिद्धिनिवासिनः कालादिसामग्रीमपेक्ष्यमाणाः सर्वार्थसिद्धिमाश्रित्य तिष्ठतीत्यर्थः । सर्वार्थसिद्धिगमनकारणमाह । किं विशिष्टाः केचित् । उव्वरियसेसपुण्णा उद्वृत्ता अनच्छन्ना शेषाः अविशिष्टाः पुण्यापुण्यप्रकृतयो येषां येषु वा उवृत्तशेषपुण्याः । किं कृत्वा सर्वार्थसिद्धिनिवासिनो भवंति । आराहिऊण सम्यगाराध्य । किमाराध्य । चउविहाराहणाइं जं सारं चतुर्विधाराधनायां यं सारं चतुर्विधाराधनासु मध्ये यः सारः शुद्धबुद्धैकस्वभावः परमात्मा तं चतुर्विधाराधनायां सारं स्वस्वरूपलक्षणमाराध्य पंचलब्धिसामग्यभावात् सर्वार्थसिद्धिनिवासिनो भवंति केचिदित्यर्थः ॥ १०८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org