________________
११८
आराधनासारः
भावितः स्वभावितः पुनः पुनर्भावनया स्वायत्तीकृतः सहजशुद्धस्वभावः आत्मभावो येन स भावितस्वभावः तस्य संबोधनं भो भावितस्वभाव क्षपक कड्डसु निस्सारय परलोकं प्रापय । कं । जीवं स्वात्मानं । कस्मात् देहाउ देहात् शरीरात् विग्रहात् । किंकृत्वा पूर्व । हणिऊण हत्वा मूलतः समुन्मूल्य । कौ । अदृरुद्दे आर्तश्च रौद्रश्च आर्तरौद्रौ । पुनः किं कृत्वा । अप्पा परमप्पयम्मि ठविऊण स्वात्मानं परमात्मनि स्थापयित्वा स्वात्मनः परमात्मनि स्थितिकरणं सोऽहमिति संस्कार एव । यदुक्तम्
सोहमित्यात्तसंस्कारस्तस्मिन भावनया पुनः ।
तत्रैव दृढसंस्काराल्लमते ह्यात्मनः स्थितिम् ॥ यस्मान्निधूतार्तरौद्रदुर्ध्यानः परमात्मज्ञानसंपन्नः अत एव क्षपकः कलंकमुक्तः बाह्याभ्यंतरपरिग्रहादिमलोज्झितः एतादृग्गुणोपेतः क्षपको निश्चित सुगतिमात्मानं तच्चतुर्विधाराधनासामर्थ्यान्नयतीति भावार्थः ॥ १०६ ॥
काललब्धिवशादाराधनाधीना भव्यास्तस्मिन्नेव भवतिरे सिद्धर्थतीत्याह;कालाई लहिऊणं छित्तूण य अट्ठकम्मसंखलयं । केवलणाणपहाणा भविया सिझंतितम्मि भवे॥१०७॥
कालादि लब्ध्वा छित्वा च अष्टकर्मशृंखलाम् । केवलज्ञानप्रधाना भव्या सिध्यति तस्मिन् भवे ॥ १०७ ।। सिझंति सिध्यति । के । भविया भव्याः आसन्नभव्या । कदा । तस्मिन् मवे तस्मिन्नेव भवांतरे वर्तमानशरीराधिष्ठाना भव्यात्मनः सिद्धिं साधयंतीत्यर्थः । किं कृत्वा । कालाई लहिऊणं कालादिकं लब्ध्वाः द्रव्यक्षेत्रकालभवभावलक्षणां सामग्री प्राप्य ॥ यदुक्तम्---
योग्योपादानयोगेन दृषदः स्वर्णता मता। द्रव्यादिस्वादिसंपत्तावात्मनोप्यात्मता मता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org