________________
टीकासहितः।
११७
इति भावनापरिणतस्त्वमात्मानमेव तनोः सकाशानिस्सारयति शिक्षयति;इयभावणाई जुत्तो अवगणिय देहदुक्खसंघायं । जीवो देहाउ तुमं कडसु खग्गुव्व कोसाओ॥१०५॥ इति भावनया युक्तः अवगणय्य देहदुःखसंघातम् । जीवं देहात्त्वं निष्कासय खड्गमिव कोशात् ॥ १०५ ॥ हे क्षपक तुमं त्वं कड्डसु निस्सारय । कं । जीवो जीवं । अत्र कर्मणि प्रथमा न युक्तेत्यार्षत्वाददोषः । कीदृशस्त्वं । इतिभावनायुक्तः, अहं देहात्मको व्याध्याधिनिष्पीतसारो न भवामि किंतु परमानंदसांद्रः शुद्धाश्चदेवास्मि इत्येवंरूपभावनया संयुक्तः स्वात्मानं शरीरान्निष्काशय । किं कृत्वा पूर्व । अवगणिय देहदुक्खसंघायं अवगण्य । कं । देहदुःखसंघातं देहे शरीरे यानि ज्वरावेशातिसारोद्भवानि दुःखानि तेषां संघातः समूहः देहदुःखसंघातः तं देहदुःखसंघातं । कमिव विग्रहाच्चेतनं पृथक् कुरु । खग्गुब्व कोसाओ खड्गमिव कोशात् असिमिव कोशात् खगपिधानकात् प्रत्याकारात् । यदुक्तम्
शरीरतः कर्तुमनंतशक्तिं विभिन्नमात्मानमपास्तदोषम् । जिनेंद्र कोशादिव खड्गयष्टिं तव प्रसादेन ममास्तु शक्तिः ॥ १०५॥ पुनः शिक्षा प्रयच्छन्नाह ;हणिऊण अदृरुद्दे अप्पा परमप्पयम्मि ठविऊण । भावियसहाउ जीवो कड्ढसु देहाउ मलमुत्तो॥१०६॥
हत्त्वार्तरौद्रौ आत्मानं परमात्मनि स्थापयित्वा । भावितस्वभाव जीवं निष्काशय मलमुक्तम् ॥१०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org